Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३९] पदार्थचन्द्रिकाटीकासहिता । २५५ - इदं च बोद्धव्यम्
देवागारनिषेविणः किल जना दुष्यन्तु शुध्यन्तु वा
तेऽमी खामिपरिग्रहेण नियतं मान्या मनीषाजुषाम् ॥ प्रायेणाश्रयगौरवेण लभते हीनोऽपि मानार्हताम्
कुब्जक्लीबमुखो जनोऽपि भजते पूजां हि राजाश्रयात् ४७३
अथ सेतुवर्णनम् ३९.
इत्यन्यतः परिक्रामन्नग्रतोऽवलोक्य सहर्ष साञ्जलिबन्धनम्
पातुं पातकिनो जनानशरणान् पातुं तमःसागरम्
__यातुं यातुपुरीमरीन् रणमुखे जेतुं दशास्यादिकान् ॥ ....... नेतुं भूतनयां मुदं विरहिणीमेतुं यशः शाश्वतम् ... दातुं शर्म च राघवेण रचितं सेतुं नमस्कुर्महे ॥ ४७४ ॥
किंच देवागारेति । देवागारे देवमन्दिरस्य निषेविणः पूजनाननिष्पादनादिरूपेण सेवकाः जनाः प्रातःकालस्नानादिना शुधन्तु, संध्यानाचरणादिना दुष्यन्तु दोषयुक्ता भवन्तु वा । परंतु ते उभयविधा अपि अमी जनाः स्वामिनः भगवतः परिग्रहेणानुग्रहेण मनीषाजुषां बुद्धिमतां नियतं नियमेन मान्याः पूज्याः भवन्ति । अत्रार्थान्तरमुपन्यस्यति-लोके प्रायेण बहुधा हीनोऽपि नीचोऽपि जनः आश्रयस्थाधारस्य गौरवेण महत्त्वेन मानार्हतां पूज्यतां लभते प्राप्नोति । हि यस्मात् कुब्जः वक्राङ्गः क्लीवश्च तौ मुखौ प्रमुखौ यस्मिन् तथाभूतो जनोऽपि, जातावेकवचनम् । राजाश्रयात् पूजां इतरजनेभ्यः सत्कारं, भजते प्राप्नोति ॥ ४७३ ॥ ' अथ दक्षिणतः श्रीरामकृतं सेतुं दृष्ट्वा तं नमस्कुर्वनाह-पातुमिति । अशरणान् रक्षकहीनान् पातकिनश्च जनान् पातुं रक्षितुं, तमःसागरमज्ञानसमुद्रं पातुं तस्य पानं कर्ते, पूर्व 'पा रक्षणे' इति धातो रूपमत्र च 'पा पाने' इति धातोश्च रूपमिति बोध्यम् । तेन सकलाज्ञानं विनाशयितुमित्यर्थः । यातूनां रक्षसां "यातुधानः पुण्यजनो नैर्ऋतो यातु-रक्षसी ।" इत्यमरः । पुरीं लङ्कानगरी यातुं गन्तुं, रणमुखे युद्धमध्ये दशास्यादिकान् रावणप्रमुखान् अरीन् शत्रून् जेतुं पराभावयितुं विरहिणीं खवियोगिनीं भूतनयां सीतां मुदमानन्दं नेतुं, प्रापयितुं, शाश्वतं विनाशरहितं यशः कीर्ति एवं संपादयितुं, शर्म सुखं दीनजनेभ्य इति शेषः । दातुं च राघवेण श्रीरामचन्द्रेण रचितं निर्मितं सेतुं नमस्कुर्महे वन्दनं कुर्मः ॥ ४७४ ॥ . १ निर्मितं भगवता'.
For Private And Personal Use Only

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331