Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
. .
-
-.
-...---
---
-
----- Aurr-.----
-.--.-
-
-
..
-
-
-
-
-
-.-
-
.--..-
----
२१४ विश्वगुणादेशचम्पू:- [ कावेरीसुग्रसनतात्पर्यपर्यटददभ्रविभ्रमालम्बरोलम्बनिकुरम्बकरम्भिततया कलिन्दनन्दिनीप्रतिच्छन्दतामनुविन्दन्ती । निशाकलितविशालसुरतदशाभवश्रमशालिक्षितीशालिनिशान्तकृशाङ्गीजनमजनवेलादोलायितपृथुलहारप्रत्युप्तमुक्ताफलरुचिनिचयपरिचयरचितया शुचितया पीताम्बरपदाम्बुरुहसम्भवसरिदम्बुडम्बरं विडम्बयन्ती । संततमन्तर्गतचिरन्तनपुरुषतल्पीभवदनन्तफणामणिघृणिश्रेणीशोणीभूततया सरखतीमनुकुर्वन्ती । पार्श्वद्वय्यामपि नैयमिककर्मानुष्ठानश्रद्धाबद्धासनशुद्धावनीसुरारब्धानवद्युब्रह्मयज्ञसमयसमधिगतमन्त्रब्राह्मणाम्रेडनपूर्वकमजस्रं सहस्रपत्रमध्यमध्यासीनानां श्रीरङ्गराजनाभिसरोजविराजमाननिखिलनिगमपठनमुखरचतुर्मुखवैख"समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिवृन्दं निकुरम्बं कदम्बकम्। समूहे" इत्यमरः। करम्भिततया व्याप्ततया कलिन्दनन्दिनी यमुना तस्याः प्रतिच्छन्दतां तुल्यतां अनुविन्दन्ती प्राप्नुवती । तथा निशायां रात्रौ आकलितं आचरितं यत् विशमलं सुरतं बहुव्यवायः तस्य दशायामवस्थायां भवो जातो यः श्रमः तेन शाली युक्तः क्षितीशालीनां राजसमूहानां निशान्तकृशाङ्गीजनः अन्तःपुरस्त्रीसमूहः तस्य मज्जनवेलायां स्नानवेलायां दोलायिताः दोलावदाचरिताः ये पृथुला महान्तो हाराः तेषु प्रत्युप्तानि खचितानि यानि मुक्ताफलानि मौक्तिकानि तेषां रुचिनिचयस्य कान्तिसमूहस्य परिचयेन रचितया निर्मितया शुचितया शुभ्रत्वेन पीताम्बरस्य विष्णोः पदाम्बुरुहात् चरणकमलात् संभव उत्पत्तिर्यस्याः सा तादृशी या सरित् गङ्गानदी तस्याः अम्बुडम्बरं उदकाडम्बरं विडम्बयन्ती अनुकुर्वती। तथा संततं निरन्तरमन्तर्गतः अन्तः स्थितो यश्चिरन्तनपुरुषः श्रीरङ्गनायकाख्यो भगवान् तस्य तल्पीभवन् शयनरूपीभवन् योऽनन्तः शेषः तस्य फणामणीनां घृणिश्रेणीभिः किरणपतिभिः "किरणोऽस्र-मयूखांशु-गभस्ति-घृणि-रश्मयः ।" इत्यमरः । शोगीभूततया रक्तीभूतत्वेन सरखतीं नाम नदीमनुकुर्वन्ती, तथा पार्श्वद्वय्यां तीरद्वयेऽपीत्यर्थः । द्वय्यामित्यत्रायचः स्थानिवद्भावेन तयप्प्रत्ययान्तत्वात् “टिवाणञ्-" इत्यादिना ङीप् । नैयमिकानि नियमसंबन्धीनि यानि कर्माणि तेषामनुष्ठाने या श्रद्धा आस्तिक्यबुद्धिः तया बद्धानि रचितान्यासनानि यैस्ते अत एव शुद्धाः पवित्रा ये अवनीसुरा ब्राह्मणास्तैरारब्धो यो ब्रह्मयज्ञः तत्समये समधिगतानि प्राप्तानि मन्त्रब्राह्मणानि वेदमन्त्रा इत्यर्थः । तेषां आनेडनपूर्वकं द्विस्त्रिरुच्चारणपूर्वकं “आमेडितं द्विस्त्रिरुक्तम्" इत्यमरः । अजस्रं निरन्तरं सहस्रपत्रमध्यं कमलमध्यमध्यासीनानां श्रीरङ्गराजस्य भगवतः नाभिसरोजे नाभिकमले विराजमानस्य शोभमानस्य निखिलनिगमानां चतुर्णामपि
१ 'लोलम्ब'. २ 'राम्भित'. ३ 'सुरतदशानुभव'. ४ 'क्षितीशनि'. ५ 'सरितं विडम्बयन्ती', 'सरिज्झरं विडम्बयन्ती'. ६ फणामणिश्रेणी'; 'अनघ'. ७ 'अनर्घ'. ८ समेधित'. ९ 'सहस्रपत्रपत्र'.
For Private And Personal Use Only

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331