Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 424
________________ ४०४ श्रीवर्धमानसूरिविरचितं (स.४.६२२-६२३) पुरे पुरिमतालाख्ये नरः प्रवर इत्यभूत् । महारोगैः पराभूतः स युवापि स्वकर्मतः ॥ ६२२ ॥ सैष खाद्यं रसस्वादविलोलरसनारसः । जग्राह यं यमाहारं विकारमकरोत्स सः ॥ ६२३ ॥ .. सो ऽथ दध्यौ य आहारः शरीराहितकारकः । प्रत्याख्यानादनाहारफलं किं तस्य नाददे ॥ ६२४ ॥ शूकासंकोचितदृशो भजन्ति सुदृशो न माम् । ताः प्रत्याख्याय किं साक्षान्न गृढे मर्त्यताफलम् ॥ ६२५॥ इत्युज्ज्वलीकृतमतिर्मतिभाजां मतल्लिका । गुरुन्गुणगुरूनेष साक्षीकृत्येदमब्रवीत् ।। ६२६ ॥ स्निग्धाम्लमधुरक्षारानाहारान्नाहमाहरे । कटुतिक्तकपायांस्तु गृह्णाम्यूनोदरव्रतः ॥ ६२७ ॥ यदासक्तानरान्मुक्तिरीयेयवेक्षते ऽपि न । ताः प्रत्याख्यामि वामाक्षीभवाब्धेरधिदेवताः ॥ ६२८ ॥ इत्यादृतं व्रतं सत्त्व विशालः पालयन्त्रयम् । क्रमेण मुमुचे रोगैरसाध्यं सुकृतस्य किम् ॥ ६२९ ॥ तदमुञ्चन्त्रतं धीरो नीरोगत्वं गतो ऽपि सः क्रमेणाभूद्विभूतीनां प्रभूतानामपि प्रभुः ॥ ६३०॥ · तद्गृहे व्यलसन्दास्यः स्मरलास्यलसदृशः । स्वर्गवेश्या इव स्वर्गमुन्मुच्याल्पविभूतिकम् ॥ ६३१ ॥ सत्संयमगुणस्वान्तावष्टम्भस्तम्भयन्त्रितः । नाक्रष्टुं विषयैः शेके तस्येन्द्रियगणः स तैः ॥ ६३२ ॥ आययौ मार्गकोटीभिर्धनं यत्तस्य नित्यशः । ययौ पात्रदयौचित्यदानमार्गत्रयेण तत् ।। ६३३ ॥

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492