Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४४७
[स.४.११२६-११३७] वासुपूज्यचरितम्
mwww.
राज्ञास्य विदधे नाम सुगन्ध इति विश्रुतम् ।। ११२६ ॥ ततस्त्वमपि कल्याणि कुर्वाणा रोहिणीव्रतम् । तद्वद्भविष्यसि भृशं सौख्यसंभारभाजनम् ।। ११२७ ॥ इति श्रुत्वा च नत्वा च मुनीन्द्रममृतासवम् । निःशोका सह लोकेन दुर्गन्धापि पुरे ऽविशत् ।। ११२८ ॥ निर्वाणारोहिणीभूतरोहिणी व्रतरोहिणी । दुर्गन्धेनाथ दुर्गन्धामोचि दुःकर्मबन्धुना ।। ११२९ ॥ रूपं किमपि विभ्राणा सा तेन तपसा सती । सुरखीणामहंकारमिव हन्तुमगाद्दिवम् ।। ११३० ॥ चिरं तत्र विचित्रान्सा भोगान्भुक्त्वा द्युतश्युता । चम्पायां मघवत्क्ष्मापलक्ष्मीदेव्योः सुताभवत् ॥ ११३१॥ श्रीमन्नशोक लोकेश त्वत्मिया रोहिणी हि सा । रोहिणी व्रतमाहात्म्याददुःखा सौख्यभाग भूत् ॥ ११३२ ॥ यस्तु षष्ठजिनादिष्टं सिषेवे रोहिणीव्रतम् ।
अथ तस्य मुगन्धस्य स्वरूपं शृणु भूपते ।। ११३३ ॥ नृपं सिंहपुरे कृत्वा तं सुगन्धं स्वनन्दनम् । परिव्रज्याटवीं सिंहः सिंहसेनो ऽजनि स्वयम् ॥ ११३४ ॥ प्रत्यक्षं प्रत्ययं वीक्ष्य दुर्गन्धध्वंसतोऽद्भुतम् । शुद्ध धर्मेऽधिकां श्रद्धां सुगन्धो विदधे ध्रुवम् ।। ११३५ जयन्बलेन बाह्यारीनान्तरारींव सक्षमः ।
चिरं धरित्रीं धर्म च श्रीवर्यः पर्यपालयत् ।। ११३६ ॥ सद्बोधः श्राद्धधर्मैकध्यानाधानमहाधनः | समाधिमृत्युतः प्राप क्ष्मापतिः स्वर्गसंपदम् ॥ ११३७ ॥ इतः पूर्वविदेदे ऽस्ति विजयः पुष्कलावती ।

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492