Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
wwwwwwwwww...mirmm
श्रीवर्धमानसूरिविरचितं [स.४.१२-२२] : तत्पुत्र आम्रदेवो ऽभूदाम्रवन्मङ्गलास्पदम् । राणुका रोहिणी तस्य पुण्यश्रीरिव देहिनी ॥ १२ ॥ तत्मनुर्देवचन्द्रो ऽभूमिस्तन्द्रो धर्मकर्मणि । । पद्मिनी पद्मिनीवास्य मिया शीलश्रियो गृहम् ॥ १३ ॥ चत्वारो जज्ञिरे विश्वनन्दना नन्दनास्तयोः। . भव्यजीवमनःशुद्धयोधर्मभेदा इवाजिनः ॥ १४ ॥ तेषु ज्येष्ठो ऽजनि श्रीमानम्बडा सचिवाग्रणीः । अद्वितीयो विवेकेन द्वितीयो जहणस्ततः ।। १५ ।। पश्चादाहादनो जातिमण्डनं दण्डनायकः । मन्त्री धर्मधुराधुर्यस्तुर्यः महादनः पुनः ।। १६ ॥ ज्येष्ठे स्वर्गश्रियं प्राप्ते श्रीमदम्बडमन्त्रिणि । विशेषाद्धर्मधुर्यत्वमाहादनसुधीर्दधौ ॥ १७ ॥ यत्कीर्तित्रततिस्थारापद्रस्थानकसंभवा । । न्यायधर्मामृतैः सिक्ता विस्तृता विश्वमण्डपे ॥ १८ ॥ यः श्रीसत्यपुरे वीरमासादे नाभिनन्दनम् । थारापद्रे च नाभेयचैत्ये श्रीपार्श्वनायकम् ॥ १९ ॥ तथा चन्द्रप्रभस्वामिसीमन्धरयुगन्धरान् । अम्बिकाभारतीमूर्तीदिव्यस्फूतीळधापयत् ।। २० ।।
॥ युग्मम् ।। नाभीपझे यथात्मानं योगी ध्यायत्यहनिशम् । पद्मकोशे तथा यो ऽयमादिनाथं स्वकारितम् ॥ २१ ॥ ग्रामे वटसरे मानि तथा संगमरखेटके । येनोद्दधे समं पूर्वैश्चैत्यान्दं जिनान्वितम् ॥ २२ ॥ अणहिल्लपुरे लक्ष्म्यास्तिलकं प्रेयसां निधिः।

Page Navigation
1 ... 488 489 490 491 492