Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 491
________________ [स.४. २३-३१] वासुपूज्यचरितम् . ४७१ स्वगुरोर्वसतिर्येनोपधे भक्तिशुभात्मना ॥ २३ ॥ लेखयत्यमलज्ञानदानभृत्पुस्तकानि यः। अगण्यपुण्यलक्ष्म्याप्त्यै शासनानीव सर्वदा ॥ २४ ॥ मासादः शुशुभे येनोधृतः श्रीवासुपूज्ययुक् । पत्तनस्य पुरो राज्ञो रत्नवानिव शेखरः ॥ २५ ॥ अमेयं स्पृहयञ्छ्रेयः श्रीमदाहादनो गुरुम् । श्रीवर्धमानमूरि स भक्त्याभ्यर्थितवानिति ॥ २६ ॥ जीर्णोद्धार इहाणहिल्लनगरे श्रीवासुपूज्यमभोः मासादस्य मया भवद्वचनतः स्वश्रेयसे कारितः । यूयं तचरितस्य पुण्यघटनां कुर्वीत जीर्णोद्धति कृत्ये ऽस्मिनिपुणा यतो गणधराः स्युः सूत्रधारा ध्रुवम् २७ ततो ऽसौ निधिनियर्कसंख्ये (१२९९) विक्रमवत्सरे । आचार्यश्चरित चक्रे वासुपूज्यविभोरिदम् ॥ २८ ॥ चतुरा वाचयन्त्वेतद्धा व्याख्यां नयन्त्वपि । शब्दप्रमाणसाहित्यागमज्ञाः शोधयन्तु च ॥ २९ ॥ यावत्पूर्वाङ्गणे ऽस्मिन्नसमतमतमोगोमयालेपना सायंसंध्यापुरन्ध्री स्फुरदुडुकुसुमे मुश्चतीन्दुमदीपम् । मातःश्रीः सांध्यरागप्रसृमरघुसणे भानुकुम्भं च तुष्टयै धर्माधीशस्य तावन्जिनचरितमिदं सङ्घलोके मदे ऽस्तात्॥३०॥ सर्वाक्षरगणानायां जयति श्रीवासुपज्यचरितमिदम् । पेदनिधिवेदवाणानीताग्रन्थसंपूर्णम् ॥ ३१ ॥

Loading...

Page Navigation
1 ... 489 490 491 492