SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४४७ [स.४.११२६-११३७] वासुपूज्यचरितम् mwww. राज्ञास्य विदधे नाम सुगन्ध इति विश्रुतम् ।। ११२६ ॥ ततस्त्वमपि कल्याणि कुर्वाणा रोहिणीव्रतम् । तद्वद्भविष्यसि भृशं सौख्यसंभारभाजनम् ।। ११२७ ॥ इति श्रुत्वा च नत्वा च मुनीन्द्रममृतासवम् । निःशोका सह लोकेन दुर्गन्धापि पुरे ऽविशत् ।। ११२८ ॥ निर्वाणारोहिणीभूतरोहिणी व्रतरोहिणी । दुर्गन्धेनाथ दुर्गन्धामोचि दुःकर्मबन्धुना ।। ११२९ ॥ रूपं किमपि विभ्राणा सा तेन तपसा सती । सुरखीणामहंकारमिव हन्तुमगाद्दिवम् ।। ११३० ॥ चिरं तत्र विचित्रान्सा भोगान्भुक्त्वा द्युतश्युता । चम्पायां मघवत्क्ष्मापलक्ष्मीदेव्योः सुताभवत् ॥ ११३१॥ श्रीमन्नशोक लोकेश त्वत्मिया रोहिणी हि सा । रोहिणी व्रतमाहात्म्याददुःखा सौख्यभाग भूत् ॥ ११३२ ॥ यस्तु षष्ठजिनादिष्टं सिषेवे रोहिणीव्रतम् । अथ तस्य मुगन्धस्य स्वरूपं शृणु भूपते ।। ११३३ ॥ नृपं सिंहपुरे कृत्वा तं सुगन्धं स्वनन्दनम् । परिव्रज्याटवीं सिंहः सिंहसेनो ऽजनि स्वयम् ॥ ११३४ ॥ प्रत्यक्षं प्रत्ययं वीक्ष्य दुर्गन्धध्वंसतोऽद्भुतम् । शुद्ध धर्मेऽधिकां श्रद्धां सुगन्धो विदधे ध्रुवम् ।। ११३५ जयन्बलेन बाह्यारीनान्तरारींव सक्षमः । चिरं धरित्रीं धर्म च श्रीवर्यः पर्यपालयत् ।। ११३६ ॥ सद्बोधः श्राद्धधर्मैकध्यानाधानमहाधनः | समाधिमृत्युतः प्राप क्ष्मापतिः स्वर्गसंपदम् ॥ ११३७ ॥ इतः पूर्वविदेदे ऽस्ति विजयः पुष्कलावती ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy