________________
४४६
श्रीवर्धमानसूरिविरचितं [स.४.१११४-११२५]
दीर्घदुःखमयीं माप षष्ठी निरयभूमिकाम् ॥ १११४ ॥ . सपीभूय च पापीयान्पश्चमी दुर्गतिं गतः। । सिंहीभूय जंगामैष चतुर्थीमथ भूमिकाम् ॥ १११५ ॥ पापी द्वीपी बभूवाथ तृतीयं नरकं ययौ । ओतुस्ततो द्वितीयं च बको ऽथ प्रथमं च सः ॥ १११६ ।। चण्डालादिभवेष्वेव भ्रान्त्वा नागपुरे ऽजनि । सूनुषभसेनाख्यो गन्धार्या गोपयोषितः ॥ १११७॥ चारयश्रावकाणां गाः सङ्गात्तेषां तु भद्रकः । सो ऽगानीलगिरेस्तट्यां दैवादावेन वेष्टितः ॥ १११८॥ मयापि माग्भवे को ऽपि दग्ध इत्यनुतापभाक् । स्मरन्पश्चनमस्कारमदह्यत दवेन सः॥ १११९ ॥ सुकृतेन ततस्तेन तव भूप सुतो ऽभवत् । सो ऽयं शेषेण दोषेण महादुर्गन्धविग्रहः ॥ ११२० ॥ तयोक्त्या जिनराजस्य राजसूनुर्भयाकुलः । जातिस्मृतिवशाज्जातकम्पः प्राञ्जलिरालपत् ॥ ११२१ ॥ नाथ नाथ भवाम्भोधेः समुद्धर समुद्धर । तैर्मोक्ष्ये ऽहं कथं पापैर्निवेदय निवेदय ॥ ११२२ ॥ इदं वदति दीने ऽस्मिन्कृपाराशिनृपात्मजे । श्रीजिनो जिनद्रोही रोहिणीव्रतमादिशत् ॥ ११२३ ।। जिनं नत्वाथ सपरीवारः पुरमगाबृपः । स चकार कुमारस्तु यथोक्तं रोहिणीव्रतम् ॥ ११२४ ॥ उद्भविष्यन्मुक्तिफलै रोहिणीव्रतवाल्जैिः । पुण्यपुष्पैरदुर्गन्धः सुगन्धश्च बभूव सः ॥ ११२५ ॥ प्रीतिपूरपरीतेन पुरि कारयतात्सवम् ।