Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४. १२९०-१३००] वासुपूज्यचरितम् ४६१
अमुमेवाद्रिमारोढुं तदस्यादिश्यतां गुणः ॥ १२९० ॥ इति बद्धाञ्जली श्रद्धाजलौघविमलात्मनि । झुपतौ पृच्छति स्वामी श्रुतिभाग्यफलं जगौ ॥ १२९१ ॥
॥ युग्मम् ॥ धर्मकल्पद्रुमोद्यानं धर्मकामगवीकुलम् । । यं वितैश्यते धर्मचिन्तामणिमहाकरः ॥ १२९२ ॥ महद्भ्यो ऽपि महीयात्यो यत्रारूडैर्भवार्णवः । दृश्येत गोपदनायो मुक्तिः स्पृश्येत पाणिना ॥ १२९३ ॥ आयं लोकाग्रगमने सोपानं समवाप्य यम् । असिध्यन्पुण्डरीकाया मुनयः कोटिकोटयः ॥ १२९४ ॥ धिग्मुक्तिक्षेत्रभावं मे ऽद्याप्यनन्ता हि जन्तवः । आता भवे भ्रमन्तीति निझर रोदितीव यः ॥ १२९५ ॥ अहो यस्य सुदुर्भेदः कश्चित्कठिनतागुणः । आत्मा त्यक्ततनुर्यत्र न क्षमः स्यादधोगतौ ॥ १२९६ ॥ क्रूराशयाः क्रूर गिरः कृष्णाः शौचबहिश्वराः । पापस्येव चरा यस्मिन पदं ददति द्विकाः ॥ १२९७ ।। हिमाद्रौ कवितांचव यत्रैवाचलराजता । आद्यो जगद्गर्यत्र तिलकाय स्वयं स्थितः ॥ १२९८ ॥ सर्वज्ञा अपि तस्यास्य गिरेनेशा गुणोक्तिषु ।। आयुस्तेषामपि मितं क्रमोयं च यतो वचः ॥१२९९॥
- अष्टभिः कुलकम् ॥ . इत्यादिश्याल्पशेषे ऽह्नि देवच्छन्दे ऽविशद्विभुः ।
स्वं स्वं स्थानं पुनः सर्वे तिर्यग्मय॑त्रजा ययुः ॥१३००॥ अस्वप्नत्वफलं किं न गृह्णामीति स्मरन्हरिः ।

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492