Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 483
________________ [स.४. १३१३-१३२४] वासुपूज्यचरितम् गताः सहस्रमूर्तित्वं तपःपुंसः कला इव ॥ १३१३ ॥ लक्षसंख्यैरिव गुणैर्गुणिता जगदीशितुः। एका क्षमैव मूतॆव साध्वीलक्षमजायत ॥ १३१४ ॥ शतद्वयीयुतं जज्ञे सहस्रं पूर्वशालिनाम् । चतुःशतीयुता पञ्चसहरुयवधिवेदिनाम् ॥ १३१५ ॥ मनःपर्ययवर्याणां षट्सहस्री शताधिका । षट्सहस्राणि साधूना केवलज्ञानशालिनाम् ॥१३१६ ।। लब्धवैक्रियलब्धीनां शतं शतगुणीकृतम् ।। वादलब्धिमतां सप्तचत्वारिंशच्छतानि च ॥१३१७॥ लक्षद्वयं श्रावकाणां दशपञ्चसहस्रयुक् । चतुर्लक्षी सषट्त्रिंशत्सहस्राः श्राविका इति ॥ १३१८ ॥ वर्षलक्षाश्चतुःपञ्चाशतं मासेन वर्जितम् । आ केवलाद्विहरतः परिवारः प्रभोरभूत् ॥ १३१९ ॥ ततस्त्रिजगतः स्वामी बोधयन्वसुधां क्रमात् । मुक्त्या संकेतितमिव त्राप चम्पापुरीवनम् ॥ १३२० ॥ षड्भिर्मुनिशतैः साकं पादपोपगमं श्रितः। पर्यङ्कासनमासीनः प्रपेदे ऽनशनं प्रभुः ॥ १३२१ ॥ इति प्रज्ञाय दूतेभ्यः कति तत्राशु नाययुः । दुःखिनः पादचारेण प्रत्यासन्ना महीभुजः ॥१३२२ ॥ अस्मत्यभूणां संदेहमिदानी हन्त हन्तु कः। इतीवेन्द्रासनैः प्रापि कम्पस्त्यक्तासने जिने ॥१३२३॥ अवधिज्ञानविज्ञातपीठकम्पनकारणाः। .... चतुःषष्टिरिहाजग्मुर्वासवा देवताकृताः ॥ १३२४ ॥ अथेन्द्राश्च नरेन्द्राश्च प्रभु दत्तप्रदक्षिणाः ।

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492