Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४५२ श्रीवर्धमानसूरिविरचितं [स.४.११८६-११९६.
M
सपुण्डरीकिणीं तातकीर्तिभिः पुण्डरीकिणीम् ॥ ११८६ ॥ अल्पानल्पस्फुरच्चक्रयुगैर्धुर्योष्ट्र गर्दभैः । शकटैरेकह+कुब्जखञ्जतुन्दिलखेटकैः ।। ११८७ ॥ कर्पूर खटिकानीली कस्तूरी हेमपित्तलैः । भाण्डैरन्यैरपि भृतैः संमिश्रैरुत्तमाधमैः ।। ११८८ ॥ स पञ्चवर्णपञ्चाङ्गः पञ्चवर्णशिरोरुहः | कौतुकादर्क कीर्तिस्तां वणिग्भूयाविशत्पुरीम् ।। ११८९ । ॥ त्रिभिर्विशेषकम् ॥ तेन तेन स्वरूपेण भाण्डैस्तैस्तैश्व ढौकितैः । आराजरङ्कं स पुरं चक्रे सोत्प्रासविस्मयम् ॥ ११९० । ततस्तस्कररूपेण हत्वा नगरगोधनम् ।
अयं व्यधान्मृधाधिक्यं भूधनेनानुधाविना ॥ ११९१ ॥ होर्मिभिर्महीपालसैन्यसिन्धोः प्रसर्पतः । अर्ककीर्तिशरा भेजुर्मर्यादावल्लितुल्यताम् ।। ११९२ ॥ जयिनो बहवस्तेन स्वहस्तेन निवारिताः । एकेन ते विवेकेन दूरं दोषगणा इव ।। ११९३ ॥ एकोऽप्ययं मया भूरिसैन्येनापि न जीयते । धिग्धिग्मत्पौरुषमिति ध्यायन्नथ धराधवः ॥ ११९४ ॥ विज्ञप्तो मेघसेनेन स्वामिन्मोदस्व मा शुचः । अयं स्वं ज्ञापयत्यर्ककीर्तिर्विक्रमढौकनः ॥ ११९५ ॥ ॥ त्रिभिर्विशेषकम् ॥ इति श्रुत्वा प्रमोदाब्धिशीकरायितदृग्जलः । उपेत्य स्रुतमालिङ्गन्निजरूपस्थमानतम् ॥ ११९६ ॥ पुरप्रवेशपूर्व स राज्यमेवाथ सूनवे ।

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492