Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४.११०२-१११३] वासुपूज्यचरितम्
પુત્
पद्मप्रभप्रभुं नत्वा सपुत्रः समुपाविशत् ।। ११०२ ॥ सुधाम्बुधिरिव स्वामी गम्भीरनिभृतध्वनिः । धर्मोक्तिशीकरैस्तापमपज हे शुभात्मनाम् ॥। ११०३ ॥ दुर्गन्धस्य ततः पृष्टे राज्ञा दौर्गन्ध्यकारणे । जज्ञे वाग्मधुभ्रुवक्त्रपद्मः पद्मप्रभः प्रभुः ।। ११०४ ॥ अत्रास्ति भरतक्षेत्रे श्रीमन्नागपुरं पुरन् । ततो द्वादशयोजन्याः प्रान्ते नीलगिरिगिरिः ॥ ११०५ ॥ तस्य प्रस्थोपले तस्थौ सोढुं सर्वानुपद्रवान् । शमी संयमराश्याख्यो मुनिर्मासोपवासवान् ॥ ११०६ ॥ तस्याद्रेर्मूर्ध्नि पापर्द्धिप्रवर्धितसदारसः । व्याधो ऽभून्मृगमाराख्यः क्रौर्याक्रान्तः कृतान्तवत् ॥ ११०७॥ भूरिलब्धिभृतस्तस्य प्रभावेण महामुनेः ।
नित्यनिः फलपापर्द्धिः सो ऽभवन्मृगमारकः । ११०८ ॥ व्याधस्य क्रोधलीनस्य तद्वधं ध्यायतस्ततः ।
उपत्यकापुरं साधुः पारणाय नगादगात् ।। ११०९॥ इहान्तरे दुरात्मासौ व्याधस्तत्रेन्धनैर्घनैः । प्रज्वाल्याधः शिलां सर्वा व्यपनीयान्यतो गतः ॥ १११० ॥ कृतकृत्यो मुनिस्तत्रावज्ञत्वायुषः क्षयम् । कर्मान्तं कर्तुमारोहत्यक्ताहारो ऽथ तां शिलाम् ॥ ११११॥ तस्य विषमाणस्य तं तापमतिदारुणम् ।
शुक्लध्यानं वरज्ञानं निर्वाणं च मुनेरभूत् ।। १११२ ॥ व्याधोऽपि तेन पापेन कुष्ठेन विगलत्ततुः । जगाम दुर्गतिं तत्र सप्तमीमुग्रवेदनाम् ॥ १११३ ॥ स्वयंभूरमणे मत्सीभूयाथो भूरिपातकः ।

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492