Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 464
________________ ४४४ श्रीवर्धमानमूरिविरचितं [स.४. १०९१-११०१] किं नाथ पूर्वमप्येतत्केनापि विदधे तपः। त्वया ज्ञानवतात्रैवं दर्शितं यन्निदर्शनम् ॥ १०९१ ॥ इति दुर्गन्धया पृष्टो मुनीन्दुः पापतापहृत् । ववर्ष वाक्सुधां बोधिबीजदुर्भिक्षभेदिनीम् ॥१०९२ ॥ ॥ युग्मम् ॥ विषये शकटालाख्ये भरतस्यास्य भूषणे । अस्ति चापलाखन्नश्रीशय्या सिंहपुरं पुरम् ॥ १०९३ ॥ तत्र चित्रतनूवन्धो नानामणिगणैरिव ।। रराज राजमुकुटः सिंहसेन इति श्रुतः ॥ १०९४ ॥ तत्प्रिया धूतकनकप्रभाभूत्कनकप्रभा । यन्मुखं लाञ्छनोद्वेगत्यक्तेन्दुः श्रीरशिश्रियत् ॥ १०९५ ॥ सुतो ऽभूचारुरूपो ऽपि तयोर्दुर्गन्धदेहवान् । अतो दुर्गन्ध इत्येव पृथ्व्यां तन्नाम पप्रथे ॥ १०९६ ॥ न राज्यदानलोभे ऽपि तं भेजे भामिनीजनः । वालव्यजनवाते ऽपि नामुश्चन्मक्षिकाश्च तम् ॥ १०९७ ॥ आस्यसंचारितश्चासैः गुप्ततूलाप्तनासिकैः । क्रमागतैरपि स्वान्तबलात्सो ऽसेवि सेवकैः ॥ १०९८ ॥ इति मातृपितृक्लेशोत्कटकष्टोर्मिपातिनि । तस्मिन्मृत्युमपि श्लाघमाने भूजानिजन्मनि ॥ १०९९ ॥ हौत्सुक्यभृतो भूरिभूषाभासुरदिग्मुखाः। चेरुगंगनपद्यासु विद्याधरसुरासुराः ॥११००॥ युग्मम् ।। षष्ठं जिनेन्द्रं पद्माभं श्रीपद्मप्रभमागतम् । तेभ्यो मत्वा ययौ नन्तुं स सुतादियुतो नृपः ॥११०१॥ राजा समवमृत्यां स प्रविश्य विधिवत्ततः।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492