Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[ स.४. १०७९-१०९०] वासुपूज्यचरितम्
हहा भीतास्मि भीतास्मि स्वामिन्मां कर्षे दुःखतः । न व्यथासु पुनस्तासु यथा यामि तथा कुरु ।। १०७९ ॥ ततः कृपाब्जिनीकेलिनवहेलिर्महामुनिः । तमः समुदयच्छेदकलां कलयति स्म गाम् ।। १०८० ॥ वासरे रोहिणीनाम्ना नक्षत्रेण पवित्रिते ।
उपवासस्त्वया कार्यः सप्तवर्षी निरन्तरम् || १०८१ ॥ बतादस्मादशोकस्य राज्ञस्त्वं रोहिणी प्रिया । शचीपतेरिव शची भविष्यसि भवान्तरे ।। १०८२ ॥ चिरमप्राप्तशोकै भुक्ता भोगान्प्रियान्विता । सिद्धिं यास्यसि विहरद्वासुपूज्यांहिसेवया ॥ १०८३ ॥ अशोकराोहिणीयुक्तामशोकतरुसंश्रयाम् । ततः श्रीवासुपूज्यस्य कारयेर्मूर्तिमद्भुताम् ।। १०८४ ॥ तत्पुरस्तस्य तपसः कार्य उद्यापनोत्सवः । तत्राभयप्रदानस्योद्घोषो ऽवश्यं विधीयते ।। १०८५ ॥ स्नात्रं श्री वासुपूज्यस्य चर्चा सुरभिवस्तुभिः । पूजा मौक्तिककल्याणमाणिक्य कुसुमांशुकैः || १०८६ ॥ तत्पुरः प्राज्यपक्कान्नफलतन्दुलढोकनम् । क्रियते रासकैर्नृत्यैः संगीतैश्च प्रभावना ।। १०८७ ॥ साधर्मिकाणां वात्सल्यमशनांशुकभूषणैः । दीने ऽनुकम्पया दानं कारागाराहिमोचनम् ।। १०८८ ॥ चैत्यनिर्मापणं शक्त्या दानं पात्रेषु भक्तितः ।
लेखनं पुस्तकानां च विधेयं विधिना तदा ।। १०८९ ॥ इदं विदधती वत्से विकाशिसुकृतक्रमा |
यसे दुःखबन्धेन सुगन्धो नृपतिर्यथा ।। १०९० ॥
४४३

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492