Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 468
________________ . -४४८ श्रीवर्धमानमरिविरचितं [स.४.११३८-११४९] तत्रास्ते नगरी विश्वमण्डनं पुण्डरीकिणी ॥ ११३८ । सा शक्रेणेव नाकश्रीकला विमलकीर्तिना । राज्ञापालि पुराचन्द्रकलाविमलकीर्तिना ॥११३९ ॥ तस्य शस्यप्रथा पृथ्वीभियस्य हृदयाप्रिया । मुखनिर्जितपद्मश्रीः पद्मश्रीः संज्ञयाजनि ॥ ११४० ॥ तत्कुक्षौ स्वर्गतो जीवः सुगन्धस्य धरेशितुः । चतुर्दशमहास्वप्नसूचितः समवासरत् ॥ ११४१ ॥ महनीयं महैर्देवी सुपुत्रं सुधुवे ऽथ सा । अर्ककीर्तिरिति क्षमापस्तस्य नाम विनिर्ममे ॥ ११४२ ॥ स कीर्तिकौमुदीकीर्णनभाश्चन्द्र इव व्यभात् । यूना तेन समग्राहि समग्रा हि कलावलिः ॥ ११४३ ॥ सब्रह्मचारी विद्यासु सहचारी च केलिषु । आसीत्तस्य कुसारस्य मेघसेनाभिधः सुहृत् ११४४ ॥ इतश्च मथुरापुर्यामुत्तराभाजि मन्दरः । श्रेष्ठिसागरदत्तस्य लक्ष्मीवत्यां सुतो ऽभवत् ॥ ११४५॥ वणिग्दक्षिणदिग्भाजि मथुरायामभूत्पुनः । नन्दिमित्राभिधः श्रेष्ठी सुभद्राख्या च तत्प्रिया ॥११४६॥ ददाते मन्दराय स्वे नन्दिमित्रेण कन्यके । विश्रुते कमलश्रीश्च गुणमाला च सद्गुणैः ॥ ११४७॥ अर्ककीर्तिकुमारस्ते मारकीर्तिश्रियाविव । सुहृदा मेघसेनेन रूपलोभादहारयत् ॥ ११४८॥ राजा विमलकीर्तिस्तद्विज्ञाय श्रेष्ठिनो मुखात् ।.. विमोच्य कन्यके लोकमशोकमकरोत्ततः ॥ ११४९ ॥ यः प्रजां पीडयत्येवं किं तेनेति नृपो नयी ।

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492