Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 445
________________ [स.४. ८६८-८७९] वासुपूज्यचरितम् ४२५ क्रमादर्जयतो भाग्यभङ्गीसङ्गीकृतात्मनः । धनधोरणयस्तस्य भूरयो ऽप्यभवन्पुनः ॥ ८६८ ।। स कदाचिदवस्वापविद्याविच्चौरचक्रराट् । .. एक तल्लोप्तो हारं विक्रेतुं प्राप तां पुरीम् ॥ ८६९ ॥ तं हारं श्रेष्ठिनस्तस्य वणिक्पुत्रो धनाभिधः। ..' उपलक्ष्यार्पयामास तलारक्षाय तस्करम् ॥७॥ तद्विज्ञाय द्रतं गत्वा श्रेष्ठी तत्र कृपामयः। स्वं वणिक्पुत्रमाक्षिप्य तलारक्षमदो ऽवदत् ।। ८७१ ॥ धनो ऽयं नैव जानाति चौरव्यतिकरात्पुरा । अस्मै महात्मने मूल्यान्मया हारो ऽ यमर्पितः ॥८७२ ॥ तदयं मुच्यतां मास्मिन्नुच्यतां चौर्यदुर्यशः । . रोहिणीयोगमात्राकि स्यात्कलङ्कीन्दुवद्रविः ॥ ८७३ ।। द्वादशव्रतधर्तायं नासत्यं वदतीत्यथ ।' . . . मुदत्तवचसामुञ्चत्तलारक्षो मलिम्लुचम् ॥ ८७४ ॥ असत्यमापि तत्सत्यं यत्पाणिहितमित्यसौ । असत्ययापि वाचामुं श्रेष्ठी चौरममूमुचत् ॥ ८७५ ॥ श्रेष्ठी तं भोजयित्वा च वरे दत्त्वा च चीवरे। . नाकृत्येषु मतिः कृत्येत्युक्त्वा च प्राहिणोत्कृती ॥ ८७६ ॥ श्रेष्ठीन्दोरुपकारेण शिक्षया च द्रवन्मना । किं स्यादकृत्यमित्येष विज्ञातुं धारयन्धियम् ॥ ८७७ ॥ निर्यन्पुरावहिर्भागभूमौ शुभ्रप्रभाभिधम् । .. धर्मोपदेशान्ददतं मुनिराजमलोकत ॥ ८७८ । बुगमम् । श्रुत्वा तद्देशनां बातकृत्याकृत्यविवेचनः । मुनीन्दोस्तस्य पादान्ते दीक्षा दक्षो ऽयमापहीद ॥८७९॥

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492