Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४२४ श्रीवर्धमानसरिविरचितं [स.४.८५६-८६७४
मुनि नेत्रामृतं नेत्ररापीय नृपमन्त्रिणौ । नत्वाथ न्यविशेतां तौ पातुं कर्णामृतं वचः ॥ ८५६ ॥ मुनीशं देशनान्ते ऽथ पप्रच्छ पृथिवीपतिः । . धन्यस्य कथमस्यासन्विपत्काले ऽपि संपदः ॥ ८५७ ॥ अथाचष्ट मुनिः स्पष्टविभवा भुवि भाति पूः। धन्यभारच्युतेव द्यौः पद्मनेत्रेति विश्रुता ॥ ८५८ ॥ तत्रादित्य इति क्षमापस्तत्प्रसादास्पदं धनी । श्रेष्ठी मुदत्त इत्यासीजिनधर्मधुरन्धरः ॥ ८५९ ॥ सो ऽन्यदा पापरोगाणामौषधं पौषधं श्रितः ।। तस्थौ निशि निशान्ते ऽसौ शान्तेन मनसा रसात् ॥८६॥ तदा कश्चिदवस्तापविद्यावेदी तदोकसि ।
भूरिभीमपरीवारः प्राविशत्तस्कराग्रणीः ॥ ८६१ ॥ ..विद्या चौरस्मृता लोकं तत्रामूर्छयताखिलम् । . सुदत्ते सा नमस्कारमन्त्रध्याने तु नास्फुरत् ॥८६२ ॥ .. .तं पश्यन्तमपश्यन्त एकान्तस्थं मलिम्लुचाः ।
जगृहुस्तद्गृहद्रव्याण्यखिलान्यस्खलन्मुदः ॥ ८६३ ॥ द्रारभञ्जन्ति स्म मञ्जूषाः कपाटोघमपाटयन् । द्रव्याय स्पष्टयामासुरमी भूमिगृहाण्यपि ॥ ८६४ ॥. .. अहो महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् ।
जाते ऽप्युत्पातजाते ऽस्मिन्न ध्यानाचलितं मनः ॥८६५॥ अनागतेष्वथागत्य गृह्णत्सु धनपद्धतीः । तेषु यातेषु च ध्यानभेदो ऽभूत्तस्य न कचित् ॥ ८६६ ॥ जने शोचत्यथोनिद्रे धननाशं निशात्यये । व्यलसदिनकृत्येषु श्रेष्ठी पारितपौषधः ॥ ८६७ ॥

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492