SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४२४ श्रीवर्धमानसरिविरचितं [स.४.८५६-८६७४ मुनि नेत्रामृतं नेत्ररापीय नृपमन्त्रिणौ । नत्वाथ न्यविशेतां तौ पातुं कर्णामृतं वचः ॥ ८५६ ॥ मुनीशं देशनान्ते ऽथ पप्रच्छ पृथिवीपतिः । . धन्यस्य कथमस्यासन्विपत्काले ऽपि संपदः ॥ ८५७ ॥ अथाचष्ट मुनिः स्पष्टविभवा भुवि भाति पूः। धन्यभारच्युतेव द्यौः पद्मनेत्रेति विश्रुता ॥ ८५८ ॥ तत्रादित्य इति क्षमापस्तत्प्रसादास्पदं धनी । श्रेष्ठी मुदत्त इत्यासीजिनधर्मधुरन्धरः ॥ ८५९ ॥ सो ऽन्यदा पापरोगाणामौषधं पौषधं श्रितः ।। तस्थौ निशि निशान्ते ऽसौ शान्तेन मनसा रसात् ॥८६॥ तदा कश्चिदवस्तापविद्यावेदी तदोकसि । भूरिभीमपरीवारः प्राविशत्तस्कराग्रणीः ॥ ८६१ ॥ ..विद्या चौरस्मृता लोकं तत्रामूर्छयताखिलम् । . सुदत्ते सा नमस्कारमन्त्रध्याने तु नास्फुरत् ॥८६२ ॥ .. .तं पश्यन्तमपश्यन्त एकान्तस्थं मलिम्लुचाः । जगृहुस्तद्गृहद्रव्याण्यखिलान्यस्खलन्मुदः ॥ ८६३ ॥ द्रारभञ्जन्ति स्म मञ्जूषाः कपाटोघमपाटयन् । द्रव्याय स्पष्टयामासुरमी भूमिगृहाण्यपि ॥ ८६४ ॥. .. अहो महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् । जाते ऽप्युत्पातजाते ऽस्मिन्न ध्यानाचलितं मनः ॥८६५॥ अनागतेष्वथागत्य गृह्णत्सु धनपद्धतीः । तेषु यातेषु च ध्यानभेदो ऽभूत्तस्य न कचित् ॥ ८६६ ॥ जने शोचत्यथोनिद्रे धननाशं निशात्यये । व्यलसदिनकृत्येषु श्रेष्ठी पारितपौषधः ॥ ८६७ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy