________________
[स.४. ८४४-८५६] वासुपूज्यचरितम् . ४२३
एवमाभाष्य संभूष्य पहिताः सचिवेन ते । गत्वा व्यज्ञपयन्राज्ञे सर्वमथ यथातथम् ॥ ८४४ ॥ स्वस्थीभयाथ भूजानिः कैश्चित्परिवृतो जनैः । कृती तत्र ययौ यत्र मित्रानन्दः स्वयं स्थितः ॥ ८४५॥ अभ्युत्तस्थौ तदा मन्त्री निभाल्य नृपति पुरः। इष्टे हि दर्शनं यावद्विरोधो युज्यते सताम् ॥ ८४६ ॥ प्रणिपत्याथ पृथ्वीन्दुनिष्कपीठे निवेशितः।। बलादर्धासने स्वस्य सचिवं न्यस्य सो ऽवदत् ॥ ८४७॥ वरेण्यं पुण्यमस्त्येव शौर्यादिव्यवसायतः । पुण्यभाजां हि जायन्ते किंकरा व्यवसायिनः ॥८४८॥ भवद्भाग्योदयः कश्चिदयमीहक्चमूचयः । येनाहं तव भापि भृत्यवद्भामितो ऽग्रतः ॥ ८४९ ॥ किं त्वसावियती भूतिर्बभूव भवतः कुतः। इत्युक्तो भूभुजा मन्त्री स्वचरित्रमचीकथत् ॥ ८५० ॥ अथ विस्मयविस्मरनेत्रपत्रजनेक्षितः । मित्रानन्देन सानन्दः पृथ्वीन्दुः प्राविशत्पुरम् ॥ ८५१ ॥ उपायैः फलितं श्रीभिर्मणिमाहात्म्यतो ऽधिकम् । वधे च नरन्द्रेण मन्त्रिणो मैत्र्यमद्भुतम् ॥ ८५२ ॥ फंदापि भानुभूपेन सहोत्तसितसंसदम् । आरादारामिको ऽभ्येत्य तं धर्मज्ञं व्यजिज्ञपत् ॥ ८५३ ॥ दिष्टयाद्य वर्धसे स्वामिन्नङ्गी धर्म इवागमत् । मुनिः सुमन्धरो नाम ज्ञानी लीलावनीं तव ॥ ८५४॥ प्रीत्याथ तस्मै दत्त्वाङ्गभूषणानि क्षणेन सः। जगामारामजगता जगतीपतिना समम् ।। ८५५ ॥