SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ . श्रीवर्धमानसूरिविरचितं [स.४.८३२-८४३] एकाक्येव दृढावेशो ऽचलद्देशान्तरं प्रति ॥ ८३२॥ पझ्यामेवादिभूचारविपद्भ्यामद्भुतोद्यमः। . . स निःससार नगरानगराज इवोन्नतः ॥ ८३३ ॥ गच्छन्नतुच्छपुण्यो ऽसौ श्रान्तो मध्यन्दिने ऽधिकम् । ददर्शन्दोरिव कलाकोटीभिर्घटितं सरः ॥८३४॥ यल्लोललहरीहस्तगणं भृङ्गघनस्वनाः । आहातुं तृषितान्वक्त्रकोटीरब्जच्छलादधौ ॥ ८३५ ॥ स कृतस्नानपानो ऽत्र स्थितः पाल्यां तरोस्तले । . नभसो रभसोत्तीर्णमपश्यत्पुरुषं पुरः ॥ ८३६ ॥ संध्यायां चिन्तितं सैन्यं दास्यत्येष मणिस्तव । पश्चादपि प्रियं भूरि पूरयिष्यति पूजितः ॥ ८३७ ॥ इत्युक्त्वा किं किमित्युक्तेरुचैश्वित्रस्य मन्त्रिणः । पाणौ चिन्तामाणिं मुक्त्वा स द्यां दिव्यनरो ऽगमत् ।।८३८॥ ॥युग्मम् ।। अथाजैर्मणिमभ्यर्च्य रोमाञ्चितवपुश्विरम् । विरचय्य चमूचक्रं सायं सो ऽगात्पुरं प्रति ॥८३९ ॥ गजवाजिरथाभोगमग्ननिस्वाननिस्वनः । तैर्बलैर्वलयामास मित्रानन्दो ऽथ तत्पुरम् ॥ ८४० ॥ कश्चकार पुरीरोधमिति बोधकृते नृपः। हेरिकान्प्रेरयामास तान्प्रेक्ष्य सचिवो ऽब्रवीत् ॥ ८४१ ॥ भुजागर्वपराभूतभूरिभाग्यभरोद्भवः। अये मद्वचसा वाच्यो भवद्भिरिति भूपतिः ॥८४२ ॥ पुण्याप्तसैन्यसंदर्भो मित्रानन्दः समागमत् । विक्रमाक्रान्तविश्वो ऽसि संग्रहर्तु बहिर्भव ॥ ८४३ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy