Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४.९६३ - ९७३] वासुपूज्यचरितम्
साधो विशुद्धमाहारं गृहाणानुगृहाण माम् । वदन्त्येति सहर्षाश्रु प्रत्यलाभि मुनिस्तया । ९६३ ॥ गन्धाम्बुपुष्पवर्षान्ते वदच्छासनदेवता । धन्ये मासोपवासी यत्पारणं कारितस्त्वया ।। ९६४ ।। तत्ते सत्त्वभवाद्दानाच्छान्ता दृष्टिहृतो ग्रहाः । अस्माद्गर्जिरवाद्दिव्याद्दृष्टो दुर्भिक्षहृद्धनः ॥ ९६५ ॥ ॥ युग्मम् ॥
अत्रोत्सवे कृते राज्ञा पौरवाक्षतपात्रिभिः । मातरं क्षमयामास नत्वा दत्तो जयान्वितः ॥ ९६६ ॥ ते ऽथ धर्म व्यधुः शुद्धं श्रद्धावन्तो निरन्तरम् । भुक्त्वायुस्तत्र जज्ञे ऽत्र सुमित्रात्मा नृपा भवान् ॥ ९६७॥ दत्तात्मा जिनदासो ऽभूज्जयात्मा रत्नवत्यपि । दानरोधाद भूल्लक्ष्मीस्त्वंन्मित्रे सकृदन्तरा ।। ९६८ ॥ श्रुत्वेति प्राग्भः स्मृत्वा गुरू नस्वा गताः पुरंम् । धर्मध्यानरताः पार्थास्ते महोदयम् ॥ ९६९ ॥
इत्याकर्ण्य जनाः सौम्यं सुमित्राया निदर्शनम् । व्रतं सेवध्वमतिथिसंविभागं शुभास्पदम् ॥ ९७० ॥ ॥ इत्यतिथि संविभागवतविचारे सुमित्राकथा ॥ एवं निशम्य सम्यक्त्वमूलत्रत विचारणीम् । द्विपृष्टः प्राप सम्यक्त श्राद्धत्वं विजयः पुनः ॥ ९७९ ॥ भूरयों ऽप्यभजन्भर्तुः पुरो भद्रकतां जनाः । श्रावकत्वं यतित्वं च चश्चदुत्सवचश्ञ्चवः ।। ९७२ ॥ महीमहीन सुकृतां कुर्वन्मोहतमी हरन् । विजहार यशोहारनायकी जिननायकः ॥ ९७३ ॥
४३३.

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492