SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ [स.४.९६३ - ९७३] वासुपूज्यचरितम् साधो विशुद्धमाहारं गृहाणानुगृहाण माम् । वदन्त्येति सहर्षाश्रु प्रत्यलाभि मुनिस्तया । ९६३ ॥ गन्धाम्बुपुष्पवर्षान्ते वदच्छासनदेवता । धन्ये मासोपवासी यत्पारणं कारितस्त्वया ।। ९६४ ।। तत्ते सत्त्वभवाद्दानाच्छान्ता दृष्टिहृतो ग्रहाः । अस्माद्गर्जिरवाद्दिव्याद्दृष्टो दुर्भिक्षहृद्धनः ॥ ९६५ ॥ ॥ युग्मम् ॥ अत्रोत्सवे कृते राज्ञा पौरवाक्षतपात्रिभिः । मातरं क्षमयामास नत्वा दत्तो जयान्वितः ॥ ९६६ ॥ ते ऽथ धर्म व्यधुः शुद्धं श्रद्धावन्तो निरन्तरम् । भुक्त्वायुस्तत्र जज्ञे ऽत्र सुमित्रात्मा नृपा भवान् ॥ ९६७॥ दत्तात्मा जिनदासो ऽभूज्जयात्मा रत्नवत्यपि । दानरोधाद भूल्लक्ष्मीस्त्वंन्मित्रे सकृदन्तरा ।। ९६८ ॥ श्रुत्वेति प्राग्भः स्मृत्वा गुरू नस्वा गताः पुरंम् । धर्मध्यानरताः पार्थास्ते महोदयम् ॥ ९६९ ॥ इत्याकर्ण्य जनाः सौम्यं सुमित्राया निदर्शनम् । व्रतं सेवध्वमतिथिसंविभागं शुभास्पदम् ॥ ९७० ॥ ॥ इत्यतिथि संविभागवतविचारे सुमित्राकथा ॥ एवं निशम्य सम्यक्त्वमूलत्रत विचारणीम् । द्विपृष्टः प्राप सम्यक्त श्राद्धत्वं विजयः पुनः ॥ ९७९ ॥ भूरयों ऽप्यभजन्भर्तुः पुरो भद्रकतां जनाः । श्रावकत्वं यतित्वं च चश्चदुत्सवचश्ञ्चवः ।। ९७२ ॥ महीमहीन सुकृतां कुर्वन्मोहतमी हरन् । विजहार यशोहारनायकी जिननायकः ॥ ९७३ ॥ ४३३.
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy