________________
४३२ श्रीवर्धमानमारिविरचितं [स.४.९५१-९६२१
देहि त्वं हि धनं धान्यं त्वत्प्रसादाद्गृहे बहु ॥ ९५१ ॥ सत्फलं नियमान्मत्वेत्येषाभिग्रहमबहीत् । स्वेच्छया विधिवदानं दत्त्वा भोक्ष्ये ऽहमन्वहम् ॥९५२॥ ततः सुतस्नुषाभ्यां चानुमताभिमतं निजम् । पूरयन्ती मुदा कालं कियन्तं सात्यवाहयत् ।। ९५३ ॥ दैवज्ञैः कथिते ऽत्यर्थमदृष्टे दारुणे न्यदा । दुर्भिक्षे सर्वतो जाते जया दत्तमदो ऽवदत् ॥९५४ ।। मूले ऽपि रौरवः कालो अत्यपूर्ण च ते गृहम् । अतः स्वां जननी दानाकुटुम्बाधार वारय ॥ ९५५ ॥ अथ तेन निषिद्धाम्बा सुमित्रा दानतः क्षणात् । निःसत्त्वतामपि ह्यङ्गीकुर्वन्ति स्त्रीजिता नराः ॥ ९५६ ॥ संस्मृत्य नियम सा स्वं निश्चिकायेति चेतसि । अदचे भोज्यमात्रे ऽपिन भोक्ष्ये ऽन्ते ऽपि जन्मनः।।९५७॥ उपनासाष्टकस्यान्ते तस्याः सत्त्वमहानिधेः। । दृचमज्ञापयदत्तं दुर्यशःशङ्किता जय ॥ ९५८ ॥ दोन बन्धुभिः सार्ध निर्बन्धं बध्नताधिकम् । नवमे ऽनि भोक्तुमुपवशिता सेत्याचिन्तयत् ॥ ९५९॥ कारणं भोजनत्यागे विदन्नपि सुतः स्वयम् । न मां दापयते किंचिद्धिग्में दुःकर्मजृम्भितम् ॥९६०॥ तत्स्वभोज्यामिदं किंचित्कस्मैचिचेहदे भुना । तन्मे स्यात्रियमः श्लाध्यो ऽश्ाध्यो न स्याच मे सुतः।९६१। ध्यायन्येति गृहायातः सहसैव मुनिस्तदा । अदृश्यत तया, मूतः पुण्यराविरिवाल्मनः ॥ ९६२ ॥