________________
[ स. ४.९३९ - ९५०] वासुपूज्यचरितम्
४३१
स्वरूपं जिनदासस्य मन्त्रिणश्च न्यवेदयत् ।। ९३९ ॥ श्रुत्वेति भूभुजा मन्त्री कारागारे नियन्त्रितः । पश्यतो जिनदासस्य हन्तव्यो ऽयमिति क्रुधा ॥ ९४० ॥ अथ जङ्गालकर भारूढो वीरद्वयान्वितः ।
जगाम जिनदासाय काशीं गुप्तो नृपः स्वयम् ।। ९४१ ॥ कार्यो मन्त्री स एवेति वचो निश्चित्य धर्मधीः । सभार्यः सह भूपेन स वसन्तपुरं ययौ ।। ९४२ ।। सर्वैश्वर्ये नृपादाप्य सचिवायापकारिणे । मन्त्रित्वं स ददौ धीमान्न द्विष्टा छुपकारिणः ॥ ९४३ ॥ अथागाद्वनपालो ऽत्र वर्धयन्निति भूपतिम् । चने sभूत्केवलज्ञानं शङ्करर्षेस्तपस्यतः ।। ९४४ ॥ तुष्टिदानं प्रदायास्मै वने गाद्विक्रमो नृपः । सहैव जिनदासेन धुर्या धर्मे हि तादृशाः ।। ९४५ ।। मुनिं नत्वोपदेशं च श्रुत्वावादीददो नृपः । मन्मित्रे जिनदासे किं सापदः संपदः प्रभो ॥ ९४६ ॥ अथ ज्ञानामृताम्भोधिर्दशनशुतिवीचिभिः । तत्पुण्यवेलाविपिनं प्लावयन्प्रभुरभ्यधात् ॥ ९४७ ॥
कौशाम्ब्यां दत्तनामा भून्मातृभक्तो धनी वणिक् । सुमित्राख्या जनन्यस्य दयिता च जयाहया ॥ ९४८ ॥ दानमेव गृहस्थानां मुख्यो धर्म इति स्फुटम् । स्वगुरोर्वाचमाचख्यौ सुमित्रा सूनवे ऽन्यदा ।। ९४९ ॥ दानोन्मुखं मनो मातुर्मत्वा मतिमतां वरः । आनन्दाज्जननीं नत्वा सभार्यः स व्यजिङ्गपत् ।। ९५० ।। यथाविधि सुपात्रेषु कृपापात्रेष्वपि स्वयम् ।