________________
४३० श्रीवर्धमानमूरिविरचितं [स.४.९२७-९३८
तद्वीक्षाकौतुकेनेव संध्यायां विधुरुद्ययौ ॥ ९२७॥ तोयपात्रं गृहीत्वाथ जिनदासो निशागमे । तरूनन्तरयामास देहचिन्ताकृते बहून् ॥ ९२८ ॥ अथेन्दुद्युतिभिर्वीक्ष्य सुप्तं कंचिदसौ नरम् । यावद्यात्यातस्तावन्मृतो लक्ष्मीधरः पुमान् ॥ ९२९ ॥ मृतमक्षतमेवैनं वीक्ष्यासौ मित्रवत्सलः। भुजङ्गदशनं तस्मिनिश्चिनोति स्म दुःखितः ॥ ॥९३०॥ आदाय स्वान्मणींस्तस्मात्कृष्ट्वा फणिमणिं ततः । तदीयस्पर्शपूतेन पयसा तमजीवयत् ॥ ९३१ ॥ उपकृत्युपकुर्वाणा ध्रियन्ते धरया न के। अपकृत्युपकारी यस्तेन तु ध्रियते धरा ॥ ९३२ ॥ वीक्ष्य लक्ष्मीधरो जीवजिनदासमथाग्रतः । त्रपानतमुखाम्भोजस्तत्सौहार्दमिषानमत् ।। ९३३ ।। अथैनमाह माहात्म्यमयो रत्नवतीपतिः । . अन्त मेमसुधासिन्धुतरङ्गोत्तरया गिरा ॥ ९३४ ॥ पादस्खलनतः कूपे पतितो ऽहं त्वयोज्झितः । इति किं लज्जसे केन खो ऽप्यनुम्रियते जनः ॥९३५॥ मिलितो ऽस्मिन्ममारण्ये सार्थवाहो ऽधुना धनः । काशिं यास्याम्यहं गच्छ स्वावासं प्रति संमति ॥९३६॥ इत्युक्त्वा प्रेषितो विपत्रपमाणस्तदा ययौ ।... सहैव सार्थवाहेन सो ऽपि वाणारसीमगात् ॥ ९३७ ॥ यावल्लक्ष्मीधरो याति वसन्तपुरपत्तनम् ।
जिनदासवियोमेन तावदातॊ ऽस्ति भूपतिः ॥ ९३८॥ .इति लक्ष्मीधरो मत्वा गत्वा क्षितिपतेः पुरः।