Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
4244
.४v...
[स.४.९८५-९९६] वासुपूज्यचरितम्
४३५ कंचिद्वरं वृणोत्वक्षिपरीक्षकपरीक्षितम् ॥ ९८५ ॥ तथेत्यथ नृपस्तेने तेनेह त्वरितं नृपाः । सर्वे ऽपि रूपगर्वेण दूताहूताः समाययुः ॥ ९८६ ॥ ते तदाहारताम्बूलचेलालंकारढीकनैः । महीभृता मघवता मोदयांचक्रिरे मुदा ॥ ९८७ ॥ अथार्क कलशीकर्तुमिव नीते महोबतिम् ।। आनिन्यिरे नरेशास्ते स्वयंवरणमण्डपे ॥ ९८८ ॥ न रूपं पापवृत्त्यै स्यादिति वाचामुदाहतिः । श्रीमान्महेन्द्रसेनाख्यः श्रीकोशलपुरेश्वरः ॥ ९८९ ।। स्वकायकान्तिपीयूषपानानिमिषविष्टपः । सिंहनाथः सुधमैकाशिथिलो मिथिलापतिः । ॥ ९९० ॥ लावण्यामृतसिन्धूर्मितरन्मकरकेतनः। जिनभक्ताभिधः पुंसां रत्नं रत्नपुराधिपः ॥ ९९१ ॥ सुनेत्रानेत्रकुमुदोल्लासलीलाविशारदः। चन्द्रचारुमुखश्चन्द्रपुरेशश्चन्द्रवर्धनः । ९९२ ॥ प्रभापल्लवलावण्यपुष्परूपफलद्रुमः । जयसेनो जयत्सेनाराजी राजगृहेश्वरः ॥ ९९३ ॥ वहन्पुण्यमहाम्भोधिजलमानुषरत्नताम् । चन्द्रामत्रयशाश्चन्द्रामित्रः काशीपुरीश्वर ॥ ९९४ ।। अन्ये ऽपि मुरसंदेहकरदेहद्युतो नृपाः। प्रपश्चात्पश्चवाणस्यालंचक्रुर्मश्चसंचयम् ॥ ९९५ ॥
॥ सप्तभिः कुलकम् ॥ कुरुजाङ्गलदेशालंकारनागपुरेश्वरः। सूनुः श्रीवीतशोकस्य सोको विद्युत्मभाङ्गमः ॥ ९९६ ॥

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492