Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
(स.४.६५७-६६८) वासुपूज्यचरितम्
४०७ wwwnominaranewwmaraamaamrarmmmmmmmmm
गीतप्रशस्तिरस्ति श्रीबन्धुरा बन्धुरा पुरी ॥ ६५७ ॥ श्रीवीरसेन इत्युप्रवीरसेनाशिरोमणिः । वृत्तैः पवित्रैरश्यामस्तस्यामजनि भूधवः ॥ ६५८ ॥ अन्तरारिप्रहारेषु धर्मकाण्डाद्भुतौ सुतौ । सुरसेनमहासेनौ तस्याभूतामुभौ शुभौ ॥ ६५९ ॥ उपमानोपमेयत्वमभिधानाभिधेयता । रूपे च साहचर्ये च व्यचार्यत तयोर्जनैः ॥ ६६० ॥ दृशौ सदवलोकेषु बाहू मोहादिमर्दने । चरणौ सच्चरित्रेषु तो धर्मस्य व्यराजताम् ॥ ६६१ ॥ अजायत रसज्ञायामन्येयुः श्वयथुः पृथुः। 'अकस्माद्विस्मयकरो महासेनस्य दुःसहः ॥ ६६२ ॥ उपशान्त्यै व्यधुर्वैया यद्यदौषधमुच्चकैः । वधे तेन तेनापि जिह्वाशोफः सलोभवत् ॥ ६६३ ॥
औषधं धर्म एवास्य युक्तमित्युक्तयस्ततः । तं वैद्या मुमुचुनिःस्वं भुजङ्गं गणिका इव ॥ ६६४ ॥ क्रमेण कुथिता तस्य रसज्ञा राजजन्मनः । मक्षिकाणामनिर्वारसत्त्रागारत्वमाययौ ।। ६६५ ।। उग्रदुर्गन्धभूः कान्तापितृमातृभिरप्यसौ । चण्डालपाटक इवावगैर्दूरादमुच्यत ॥ ६६६ ॥ . तं तथाभूतमुद्भाव्य भ्रातृस्नेहवशंवदः। दुर्गन्धं दुःसहं जित्वा सुरसेनः समीपगः ॥ ६६७ ॥ रोगो ऽसौ यावदस्यास्ति न किंचित्तावदाहरे । म्रियते यद्यनेनैष म्रिये ऽनशनतस्ततः ॥ ६६८ ॥ इति न्यविशत भ्रातुर स दृढनिश्चयः ।

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492