Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 431
________________ [स.४.७०४-७१४] वासुपूज्यचरितम् ४११ तथाहि शत्रुलोकाहिबहणः क्षीणगर्हणः । भूपो ऽभूद्विजयो नाम धर्मी कामपुरे पुरे ॥ ७०४॥ तं श्रेष्ठी सिंहदत्ताख्यो नत्वाचख्यौ कदाचन । केशरी नाम मे स्वामिन्पुत्रो ऽभूचौर्यभूरिति ॥ ७०५ ॥ अथ स्थास्यति मद्भूमौ यदि तद्वध्य एव मे । इति केशरिणं देशानरेशो निरकाशयत् ॥ ७०६॥ सोऽपि भूपभयाक्रान्तः श्रान्तो देशान्तरं वजन् । काप्यपश्यद्वने स्वच्छशीतस्वादुरसं सरः ॥ ७०७ ॥ अचौर्याहृतमाशक्तेन पयो ऽपि पपे मया । अहो कार्य तदप्यद्य विग्धिग्दैवविपर्ययम् ॥ ७०८॥ इति ध्यायनयं तत्र श्रान्तः कान्तारपल्वले । चौरश्चक्रे पयःपानं स्नानं च विदधे ऽधिकम् ॥ ७०९ ॥ . . निःसृत्य स गतश्रान्तिरारोहपालिशालिनम् । क्षुधाकुलः फलस्यूततरं चूततरूं ततः ॥ ७१० ॥ फलैस्तप्तस्ततो दृप्तः स चिन्तां क्लुप्तवानिति । हहा मम किमद्याहविना चौर्येण यास्यति ॥ ७११ ॥ इति चिन्तापरे तत्र मन्त्रसाधितपादुकः।। उत्ततार सरस्तीरे को ऽपि योगीश्वरो ऽम्बरात् ॥ ७१२ ।। स व्योमगमनासन्नतपनातपतापितः। . दत्त्वा दिक्षु दृशं मुक्त्वा पादुके उदके ऽविशत् ॥ ७१३ ॥ वेनीदं पादुकाद्वन्द्वमस्याकाशगतौ क्षमम् । यदेतदिह मुक्त्वासौ पद्भयामेव जले विशत् ॥ ७१४ ॥ तदेतचोरयोमीति ध्यात्वोत्तीर्य द्रुतं द्रुमात् । . . .. . .

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492