________________
[स.४.७०४-७१४] वासुपूज्यचरितम् ४११
तथाहि शत्रुलोकाहिबहणः क्षीणगर्हणः । भूपो ऽभूद्विजयो नाम धर्मी कामपुरे पुरे ॥ ७०४॥ तं श्रेष्ठी सिंहदत्ताख्यो नत्वाचख्यौ कदाचन । केशरी नाम मे स्वामिन्पुत्रो ऽभूचौर्यभूरिति ॥ ७०५ ॥ अथ स्थास्यति मद्भूमौ यदि तद्वध्य एव मे । इति केशरिणं देशानरेशो निरकाशयत् ॥ ७०६॥ सोऽपि भूपभयाक्रान्तः श्रान्तो देशान्तरं वजन् । काप्यपश्यद्वने स्वच्छशीतस्वादुरसं सरः ॥ ७०७ ॥ अचौर्याहृतमाशक्तेन पयो ऽपि पपे मया । अहो कार्य तदप्यद्य विग्धिग्दैवविपर्ययम् ॥ ७०८॥ इति ध्यायनयं तत्र श्रान्तः कान्तारपल्वले । चौरश्चक्रे पयःपानं स्नानं च विदधे ऽधिकम् ॥ ७०९ ॥
.
.
निःसृत्य स गतश्रान्तिरारोहपालिशालिनम् । क्षुधाकुलः फलस्यूततरं चूततरूं ततः ॥ ७१० ॥ फलैस्तप्तस्ततो दृप्तः स चिन्तां क्लुप्तवानिति । हहा मम किमद्याहविना चौर्येण यास्यति ॥ ७११ ॥ इति चिन्तापरे तत्र मन्त्रसाधितपादुकः।। उत्ततार सरस्तीरे को ऽपि योगीश्वरो ऽम्बरात् ॥ ७१२ ।। स व्योमगमनासन्नतपनातपतापितः। . दत्त्वा दिक्षु दृशं मुक्त्वा पादुके उदके ऽविशत् ॥ ७१३ ॥ वेनीदं पादुकाद्वन्द्वमस्याकाशगतौ क्षमम् । यदेतदिह मुक्त्वासौ पद्भयामेव जले विशत् ॥ ७१४ ॥ तदेतचोरयोमीति ध्यात्वोत्तीर्य द्रुतं द्रुमात् ।
.
.
..
.
.