SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीवघमानसूरिविरचितं स.४. ७१५- ७२६] पादुके पादयोः क्षित्वा चौरो ऽगाद्गगनाध्वना ॥ ७१५ ॥ स निर्गम्य दिनं कापि नक्तं तत्पादुकापदः । चिन्तासमानसमयः व्योम्ना धानि ययौ निजे ॥ ७१६ ॥ राज्ञे विज्ञप्य चौरं मां त्वं पुरान्निरकाशयः । इत्युक्त्वाताडयद्दण्डैः पितरं नितरामसौ ॥ ७१७ ॥ परासुं पितरं त्यक्त्वा महद्धीनि गृहाणि सः । प्रविवेश पदार्थोंघं सारं सारं जहार च ॥ ७१८ ॥ अन्त्ये यामे त्रियामायाः स समायातवान्पुनः । सरोवरं तदेवाशु दुर्गमारण्यमण्डनम् ।। ७१९ ।। नित्यमित्ययमुद्दामक्रौर्यचौर्यलसद्रसः । तदेव नगरं गत्वादुष्टद्विविधलुण्टनः ॥ ७२० ॥ लोकं साधुसती मुख्यं संतापयति पापिनि । यमागम इव भिये ऽभवत्तत्र निशागमः ॥ ७२१ ॥ तत्स्वरूपं परिज्ञाय राज्ञाथ व्यथितात्मना । परिपृष्टः पुरीरक्षो वैलक्ष्यन्यग्मुखो वदत् ॥ ७२२ ।। प्रभो नभोध्वगः कोऽपि पुरं मध्नात्यदः सदा । न चौरचरणन्यासः कापि चाप्यत यद्भुवि ॥ ७२३ ॥ ततः क्षितिपतिः कोपसंतप्तं लोचनद्वयम् । व्यथातुरःपुरप्रेक्षाकृपाश्रुषु निमज्जयन् ॥ ७२४ ॥ तपोधनतपःशीलवतीशीलप्रभावतः । तत्क्लेशसोद्यमः सो ऽद्य मम चौरो ऽस्तु गोचरः ॥७२५ ॥ इत्युक्त्वाल्पपरीवारः पुरीमयमलोकत । ४१२ प्रत्यास्थानं प्रतिद्यूताश्रयं प्रतिसुरालयम् ॥ ७२६ ॥ ॥ त्रिभिर्विशेषकं ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy