________________
[स.४.७२७-७३८] वासुपूज्यचरितम्
चौरचिझं क्वचित्किंचिदप्यनालोकयन्नृपः । जगाम क्षामसंकल्पः पुरीपरिसरावनिम् ॥ ७२७ ॥ वापीकूपतडागादिस्थानेष्वपि निरूपयन् । . न प्राप भूपतिः क्वापि चौरसंचारचेष्टितम् ॥ ७२८ ॥ मध्याह्ने ऽय धरानेतुर्वनान्तर्भुवि तस्थुषः । नासामासादयद्गन्धः कर्परागुरुधूपभूः ॥ ७२९ ॥ व्रजन्गन्धानुसारेण चण्डिकागारमासदत् । चम्पकार्चितां तस्मिन्नपश्यच्चण्डिकां नृपः ॥ ७३०॥ उन्मुच्य धूपनं तादृग्भूपमभ्याययौ ततः । संयोजितकरः पूजाकरः प्रवरचीवरः ॥ ७३१ ।। केनोत्सवेन केनेहक्चण्डीपूजाय कारिता । दत्तानि युतिदूनेन्दुभांसि वासांसि केन ते ॥ ७३२ ॥ इति पृच्छति भूजानौ पूजाकारी जगाद सः । दुःस्थान्वयस्य मे स्वामिभक्या तुष्टाय चण्डिका।।७३३॥ प्रगे पूजार्थमायामि यदा नित्यं लभे तदा । देव्याः पादायवर्तीनि रत्नानि कनकानि च ॥ ७३४॥ एवं देवीं त्रिकालं तत्पूजयामि जयामि च । तत्प्रसादोत्थनिःशेषश्रीपूरः श्रीदमप्यहम् ॥ ७३५ ॥ नक्तं चौरागमं तत्र सुधीनिश्चित्य तगिरा। ययौ वासरकृत्यार्थमावासं वासवो मुवः ॥ ७३६ ॥ नक्तं सारपरीवारश्चण्डिकागारमागतः । न्यस्य दूरे नृपः शूरानिहैकः स्वयमास्थितः ॥ ७३७ ॥ . निशीथे स्तम्भगुप्ताङ्गो भूभुजङ्गस्ततो ऽम्बरात् । उत्तीर्ण पादुकासिद्धं तमालोकत तस्करम् ॥ ७३८ ।।