________________
४१४ श्रीवर्धमानमरिविरचितं [स.१.७३९-७५०]]
पादुकाद्वयमादाय सो ऽथ वामेन पाणिना। . गत्वा गर्भगृहं चण्डीमानर्च मणिभिः शुभैः ॥ ७३९ ॥ जगौ च स्वामिनि स्वैरचारिणश्चौर्यकारिणः । स्यान्ममेयममेयर्द्धिदायिनी क्षणदा मुदे ॥ ७४० ॥ इत्युक्त्वा पलमानो ऽयं द्वारमारुह्य भूभुजा । कृपाणपाणिना जीवन रे न यासीति धर्षितः ॥ ७४१॥ इति भाषिणि भूपाले तद्भालं पति कालवित् । पादुकाद्वयमेवायमस्वीकृत्य क्रुधामुचत् ।। ७४२ ॥ तद्धातवञ्चनव्यग्रे महीभुजि महाभुजः । अयं जीवन्त्रजामीति वदन्नेवैष निर्ययौ ॥ ७४३ ।। यात्यसौ केशरी चौर इति भूपगिरां भटाः । तमाशु दूरे नश्यन्तमन्वधावन्नृपाज्ञया ॥ ७४४ ॥ चौरलोत्रावनीं गन्तुं मन्त्रेणादिष्टशक्तिवत् । प्रदाय पादुकाद्वन्दं भूपो ऽप्यनुययौ भटान् ।। ७४५ ॥ स तु चौरस्त्वरा दूरमुक्तशूरसमुच्चयः । पुरनामान्तगैर्मा रेवागात्पदगुप्तये ॥ ७४६ ॥ भयाकुलितचित्तो ऽप्तौ किंचिद्वैराग्यवांस्ततः । दध्यावित्यय मे पापमित्युग्रं फलितं ध्रुवम् ॥ ७४७ ।। ग्रामारामावनौ कापि कस्यापि दिशतो मुनेः । ध्यानतत्त्वं वचश्चौरः श्रद्धयेत्यशृणोत्तदा ॥ ७४८ ॥ सर्वत्र ध्यानसमतारुचिमुच्येत पातकैः । ‘जनः सद्यो ऽपि तिमिरैः कृतदीप इवालयः ॥ ७४९ ॥ इति हुन्मर्मनिर्मग्नं चौरस्तद्भावयन्वचः । चपुरुत्पुलकं बिभ्रदर्चस्तत्रैव तस्थिवान् ॥५०॥युग्मम् ।।