________________
श्रीवर्धमानसुरिविरचितं [स. ४. ६९३-७०३]
पालयन्तौ शुभं धर्म ज्वालयन्तौ च पातकम् । क्षालयन्तौ च कीर्त्या स्वं सुचिरं तौ ननन्दतुः ।। ६९३ ।।
युग्मम् ॥
४१०
वीरः क्रमेण पूर्णायुः सुरसेन भवानभूत् । अनालोचिततादृग्वाग्वीरस्त्वेष तवानुजः || ६९४ ॥ असाध्यः सर्ववैद्यानामनव यौषधीविदाम् । सर्पम हतिवाक्पापाज्जिह्वा रोगो ऽस्य जातवान् ॥ ६९५ ॥ यतिसंजीवनादेव लब्धग्भङ्गलब्धिना । निरासि रसनारोगो महासेनस्य स त्वया ।। ६९६ ।। इति ज्ञात्वा वट्टत्तान्तं जातजातिस्मृती तदा । सुरसेनमहासेनौ भवा भेजतुर्व्रतम् ॥ ६९७ ॥ व्रतं व्रततित्सिक्का तौ चारुचरितामृतैः । धर्मप्रसूनजं मुक्ति फलं कालादवापतुः ।। ६९८ ।। सुरसेन महासेन दृष्टान्तेनामुना जनाः । अनर्थदण्डं दुःखौघहेतुं त्यजत दूरतः ।। ६९९ ॥ ॥ इत्यनर्थदण्डव्रतविचारे सुरसेनमहासेनकथा ॥ सुध्यानानामसावद्यकृतां मौहूर्तिकं हृदि ।
यत्साम्यमाद्यं तच्छिक्षात्रतं सामायिकाभिधम् ॥ ७०० ॥ आभाति यतिधर्मश्रीक्षण खेलनभूमिका | दुरितोर्मिनिरामाय व्रतं सामायिकं पुनः ॥ ७०१ ॥ मोक्षश्रीममतारम्भः समताभ्यासरङ्गभूः । करुणारस सिन्धूर्मिरायं शिक्षाव्रतं मतम् ॥ ७०२ ॥ क्रूराचारो sपि संसारकाराया मुच्यते द्रुतम् । केसरीव त्रुटत्कर्मदामा सामायिकत्रती ।। ७०३ ॥