________________
४०४ श्रीवर्धमानसूरिविरचितं (स.४.६२२-६२३)
पुरे पुरिमतालाख्ये नरः प्रवर इत्यभूत् । महारोगैः पराभूतः स युवापि स्वकर्मतः ॥ ६२२ ॥ सैष खाद्यं रसस्वादविलोलरसनारसः ।
जग्राह यं यमाहारं विकारमकरोत्स सः ॥ ६२३ ॥ .. सो ऽथ दध्यौ य आहारः शरीराहितकारकः ।
प्रत्याख्यानादनाहारफलं किं तस्य नाददे ॥ ६२४ ॥ शूकासंकोचितदृशो भजन्ति सुदृशो न माम् । ताः प्रत्याख्याय किं साक्षान्न गृढे मर्त्यताफलम् ॥ ६२५॥ इत्युज्ज्वलीकृतमतिर्मतिभाजां मतल्लिका । गुरुन्गुणगुरूनेष साक्षीकृत्येदमब्रवीत् ।। ६२६ ॥ स्निग्धाम्लमधुरक्षारानाहारान्नाहमाहरे । कटुतिक्तकपायांस्तु गृह्णाम्यूनोदरव्रतः ॥ ६२७ ॥ यदासक्तानरान्मुक्तिरीयेयवेक्षते ऽपि न । ताः प्रत्याख्यामि वामाक्षीभवाब्धेरधिदेवताः ॥ ६२८ ॥ इत्यादृतं व्रतं सत्त्व विशालः पालयन्त्रयम् । क्रमेण मुमुचे रोगैरसाध्यं सुकृतस्य किम् ॥ ६२९ ॥ तदमुञ्चन्त्रतं धीरो नीरोगत्वं गतो ऽपि सः क्रमेणाभूद्विभूतीनां प्रभूतानामपि प्रभुः ॥ ६३०॥ · तद्गृहे व्यलसन्दास्यः स्मरलास्यलसदृशः । स्वर्गवेश्या इव स्वर्गमुन्मुच्याल्पविभूतिकम् ॥ ६३१ ॥ सत्संयमगुणस्वान्तावष्टम्भस्तम्भयन्त्रितः । नाक्रष्टुं विषयैः शेके तस्येन्द्रियगणः स तैः ॥ ६३२ ॥ आययौ मार्गकोटीभिर्धनं यत्तस्य नित्यशः । ययौ पात्रदयौचित्यदानमार्गत्रयेण तत् ।। ६३३ ॥