________________
(स.४.६३४-६४५) वासुपूज्यचरितम् ...
अन्नार्थविग्रहव्यापितमातृसुतोद्धतम् । एकदा रडुन्दुःप्रेक्षं दुर्मिक्षं समभूद्भुवि ॥ ६३४ ॥ विलीनं दानिनां दानैस्तदानं वधे तदा । ग्रीष्मे सरोम्भः शुष्येत स्यादुद्वीचिस्तु वारिधिः॥ ५३५॥ दुर्भिक्षभीरुभिर्भजे स एवैको जगज्जनैः। सर्वज्ञदिष्टः संसारभीतैर्धर्म इवाभितः ॥ ६३६ ॥ प्रासुकैः पेयपकानदधिदुग्धघृतादिभिः । स दिगन्तागतान्साघल्लँक्षशः प्रत्यलाभयत् ॥ ६३७ ॥ पितृमातृमुतीकृत्य श्रावकान्स वयःक्रमात । प्रत्यहं गृह एवोचैरसंख्यातानभोजयत् ॥ ६३८ ॥ इत्यखण्डव्रतः श्रीमान्प्रवरस्तु वरस्तुतिः । दानैकव्यसनः कालयोगतस्त्रिदिवं गतः ॥ ६३९॥ शाश्वताहन्महायात्रानित्यनिर्मलधर्मधीः ।....... पूर्णायुश्चिन्तयामास स वासवसमः सुरः ॥ ६४० ॥ श्राद्धो युगप्रधानो ऽस्ति यः कश्चिद्भुवि तत्सुतः । भूयासं सार्वभौमो ऽपि मा भूवं कलुषे कुले ॥ ६४१ ॥ इतश्च चित्रशालाख्ये त्वत्पुरोपपुरे पुरे। श्राद्धोऽस्ति शुद्धबुद्धयाख्यो विमलाया मनःमियः॥६४२॥ द्वादशव्रतनिर्व्याजपालनोज्ज्वलजीवितः। ईदृग्दुर्भिक्षवाचापि न चक्रे योऽन्नसंग्रहम् ॥ ६४३ ॥ स देवस्तत्प्रियाकुक्षिमाप सुस्वप्नभूचितः । साप्यस्त सती पुत्रं पवित्रं ह्यस्तने दिने ॥ ६४४ ॥ महाभाग्यवतो जन्म तस्य जित्वाशु दुर्गहान् । . बभञ्ज बत दुर्भिक्षामिह द्वादशवार्षिकम् ॥ ६४५॥