________________
४०६
श्री वर्धमान सूरिविरचितं (स.४.६४६–६५६)
इति श्रुत्वाद्भुतप्रीतिर्नत्वा केवलिनं नृपः । तत्राशु गत्वा तं बालं भाले न्यस्येदमूचिवान् ॥ ६४६ ॥ दुर्भिक्षमज्जज्जगदुद्धारधीर नमोऽस्तु ते । राजा त्वमेव मे राज्ये तलारक्षो ऽस्मि तावकः ||६४७ || मूर्तिमानिव धर्मो ऽयमित्थं दुर्भिक्षभङ्गकृत् । इति तस्याभिधा धर्म इति धात्रीभृता कृता ॥ ६४८ ॥ चरैर्मत्वेदमन्ये ऽपि भूभुजः स्वस्वभूमिषु । धर्माज्ञां वर्तयित्वा वर्षयामासुरम्बुदान् || ६४९ ॥ वयःकालोचितैचित्रैः प्राभृतैः सर्वभूभुजाम् । अश्रान्तानन्दसंदर्भः सो ऽर्भकः समवर्धत ।। ६५० ॥ समस्तभूभृतां पुत्र्यः सकलाः कमलेक्षणाः । पतिंवरास्तमाजग्मुः समुद्रमिव निम्नगाः ॥ ६५१ ॥ धर्मः समग्र भूगोललोलाज्ञो गुरुभक्तिभाक् । धर्मी कर्माण्यसंचिन्वन्संभोगान्बुभुजे ऽद्भुतान् ॥ ६५२ || भुक्तभोगस्त्वसौ योगबलमुज्ज्वलमाश्रितः । उत्पन्नकेवलज्ञानमहिमा मुक्तिमाप्तवान् ।। ६५३ ॥
इति धन्यस्य धर्मस्य भवद्वयनिदर्शनात् । जितसंपत्तिसंपातैः सेव्यतां सप्तमं व्रतम् ॥ ६५४ ॥ इति भोगोपभोगव्रतविचारे धर्मनृपकथा ॥ रौद्रार्तधीशस्त्रदानपापशिक्षाप्रमादिताः ।
अनर्थदण्डस्तत्त्यागः स्यात्तृतीयं गुणव्रतम् ।। ६५५ ।। अनर्थदण्डवीरामत्रतधीरा महोदयम् ।
लभन्ते शुभसंभारभासुराः सुरसेनवत् ।। ६५६ ।। तथाहि देवपूज्योद्यगन्धान्धैर्मधु पैर्मुहुः ।