________________
(स.४.६१०-६२१) वासुपूज्यचरितम्
wmmmmmmmmmmmmmmmmmmmmmmmmmmmm.ne. अवर्धतातिमात्रं स धात्रीश्वरमुदा समम् ॥ ६१० ॥ अवग्रहग्रहान्विद्युदङ्गाल्या तर्जयन्निव । बलाकादशनैर्कोतिर्विदां वाचो हसन्निव ॥ ६११ ॥ दर्शनादेव दुर्भिक्षं द्विषं भुक्कैव निर्नदन् । धारामुशलसंपातैः मादुःखमिव खण्डयन् ॥ ६१२ ।। अब्धिद्वयजलाकर्षनालयन्त्राभकार्मुकः। स ववर्ष प्रजाहर्षप्रकर्षाश्रुघनं घनः ॥ ६१३ ॥
॥त्रिभिर्विशेषकम् ॥ अन्योन्यकरतालाभिज्योतिषज्ञोपहासकृत् । दृष्टयानयैव निष्पन्नः काल इत्यालपज्जनः ॥ ६१४ ॥ कृतार्थी पृथिवीं कृत्वा लोकस्तवमयादिव । अब्दो ऽथ काप्यगादेष एषैव महतां गतिः ॥ ६१५ ॥ निवृत्तचिन्तासंतापं ततः क्षमापं परे ऽहनि । एत्य हस्तमिलद्भालो वनपालो व्यजिज्ञपत् ॥ ६१६ ॥ स्वदुद्याने चतुर्मासवासमासूत्र्य तस्थुषः । युगन्धरमुनेरद्योत्पेदे केवलमुज्ज्वलम् ॥ ६१७॥ अथारामिकमापूर्य परमैः पारितोषिकैः।। आरामाय जगामायममायसुकृतः कृती ॥ ६१८ ॥ स त्रिः प्रदक्षिणीकृत्य प्रणिपत्य च तं मुनिम् । सद्धर्मदेशनां श्रुत्वा पप्रच्छेति कृताञ्जलिः ॥६१९ ॥ प्रभो ज्योतिर्विदां तेषामष्टिविषयं वचः। . कथं विघट्टितं पृथ्व्यामथ स प्राह केवली ।। ६२० ॥ ग्रहयोगेन दुर्भिक्ष भववादशवार्षिकम् । कारणेन न येनाभूत्तदमीषामगोचरम् ॥ ६२१ ॥
पकम् ।