________________
४०२
श्री वर्धमानसूरिविरचितं (स. ४,५९८-६०९)
मुच्यते संचितेनापि कर्मरोगेण धर्मवत् ॥ ५९८ ॥
तथाहि सिद्धं साहित्यमित्र विद्यासु भासुरम् । नगरीषु गुरुश्री कमस्ति श्रीकमलं पुरम् ।। ५९९ ॥ तत्राजनिष्ट राजेन्दुः सत्याख्यो राजशेखरः । कालरात्रेरिवादर्शो यदसिर्ददृशे ऽरिभिः ।। ६०० ॥ सकलैः स कलापात्रैः क्षात्रैरिव गुणैः श्रितः । कस्य कस्य नमस्यत्वं भूभुजङ्गो न जग्मिवान् ॥ ६०१ ॥ संभावि भुवि दुर्भिक्षं देव द्वादशवार्षिकम् । इत्येकदा पुरस्तस्य ज्योतिःशास्त्रविदो वदन् ।। ६०२ ।। सर्वथा नान्यथादृष्टागर रामेषां मनीषिणाम् । चकम्पे वचसा तेन स वातेन तृणं यथा ॥। ६०३ ॥ रौप्यकाञ्चनरत्नादिसर्वस्वव्ययतस्ततः ।
कणानां च तृणानां च स चक्रे संग्रहं बहुम् ।। ६०४ ।। अथानसंग्रहव्यये समग्रे ऽपि जने ऽभितः । विवेश मध्ये देशस्य कापि दुर्भिक्षवर्णिका ।। ६०५ ।। अन्नसंग्रहविक्रीतसर्वालंकरणो जनः । फाल्गुणच्युतपत्रालिशालजालवदाबभौ ।। ६०६ ॥ निर्धान्या निर्धनाः काश्चिदवजिष्यन्ति प्रजाः क मे । शुचेत्यचिन्तयद्राजा प्राजापत्येन लज्जितः ।। ६०७ ॥ इति नित्यं ज्वलच्चिन्ता तप्तस्योर्वीशितुर्मुदे । आषाढस्याद्य एवाहि पौरस्त्यपवनो ववैौ ॥ ६०८ ॥ अथाङ्कुर इव प्राच्यां सुभिक्षफलशाखिनः ।
अम्बुदस्य लवो दर्शि मुदितेन महीभुजा ॥ ६०९ ॥ श्रीरिवाभ्युदयद्भाग्यभरस्य जलभृल्लवः ।