________________
(स.४.५८७-५९७) वासुपूज्यचरितम् बना विवाह्यस्तनुजः सिंहो वध्यस्तु वैरिवत् । इति कुप्यन्नृपो ऽप्यागाद्वाहनैवेगवत्तरैः ॥ ५८७॥ ईदृग्विरुद्धबुद्धिस्तौ स ददर्श महामुनी। ... सेव्यमानपदी व्याघ्रदीपिसिंहादिजन्तुभिः ॥ ५८८ ॥ प्रभाविनाविमौ शक्यौ न पराभवितुं बलात् । भक्त्यैव भाष्यावित्यन्तायनराजा जगाम तौ ॥५८९ ॥ वापदैर्दत्तमार्ग ते मार्गन्तं वीक्षणान्यपि । नमन्तं चटुमन्तं च नेक्षांचक्रतुरप्यमू ॥ ५९० ॥ तौ तु मासोपवासाते स्तूयमानौ सुरासुरैः। शुद्धध्यानवशीभूतां भेजाते मुक्तिवल्लभाम् ॥ ५९१ ।। न योजनशतादूर्ध्व यामीति तव निश्चयः ।। असंख्यैोजनैमित्र मां मुत्का किमगाः शिवम् ॥५९२॥ इति क्रन्दन्नृपः सिंहनाम्नो मित्रस्य विग्रहम् ।। पुत्रस्य चाग्नौ चिक्षेप स्वं च शोकमहानले ॥ ५९३ ॥ तयोः सत्त्वातिरेकोक्त्या विबुधैर्बोधितस्ततः । धर्मकर्मठधीः पाप स्वपुरं भूपुरन्दरः ॥ ५९४ ॥ वरं तत्याज यः प्राणान्न पुनः स्वीकृतं व्रतम् । स सिंह इव सेवध्वं जना दिग्विरतौ रतिम् ।। ५९५ ।।
॥ इति दिग्विरतिविचारे सिंहकथा ॥
योग्यमुपभोग्यं च पारिमित्येन गृह्यते । । भोगोपभोगमानाख्यं तद्वितीयं गुणवतम् ॥५९५ ।। सुकृतश्रीनिवासैकसरोजं सप्तमं व्रतम् । चित्रमत्र परत्रापि सुरभीकुरुते सतः ॥ ५९७ ॥ कृती मितीकृताहारः सप्तमव्रतलीलया ।