Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 377
________________ ३६४ दर्पणसहिते वैयाकरणभूषणसारे थकन्वं, तेषां तात्पर्य ग्राहकतयैवोपयोगादित्युक्तरीत्येत्यर्थः ॥ *तिडादेः स्यादिति ॥ तत्रान्वयव्यतिरेकाभ्यां कादिवाचकत्वावधारणे तु प्रादीनामपि वाचकत्वविधृतिरिति भावः । परन्तु "अजर्घा अचकात्" इत्यादी धातुमात्रात् कादिबोधेन तिङां द्योतकत्वे इष्टवापत्तिः। .. नच तत्र लुप्तविभक्तिस्मरणाद् बोधः । लोपमजानतोऽपि बो. धात् प्रत्यलक्षणस्य लोपफलत्वं वदता भाष्यकृता लुप्तविभक्तिस्मरणाद् बांधस्यानभ्युपगमाश्च । यत्र प्रत्ययस्य वाचकता तत्रैव "प्र. कृतिप्रत्ययार्थयो"इति नियमावकाशो यथा 'पाचक' इत्यादिकृदन्ते । "लः कर्मणि" (पा० सू०३।४। ६९ ) इत्यादौ कर्मविशिष्टकर्तृवि. षयाद्धातोरित्यर्थान्न तद्विरोधः । “भावे" इत्यस्य सर्वैस्तथैव व्याख्यानात् । नच सर्वत्रव धातोर्भावनाविषयत्वात्तत्रैव लकारः स्यादितिश. यम् । भावविषयादित्यस्य केवलक्रियामात्रबोधकादित्यर्थेनादोषात्। अत एव, "भावकर्मणोः",(पा० सू०१।३।१३)" शेषात् कर्तरि परस्मैप. दम्"(पा० सू०१।३।७९)"द्वयेकयोः"(पा० सू०१४२२) इत्यादीनां निय. म इति भाष्यकृदुक्तिसङ्गतिः । तेषामनिर्दिष्टार्थत्वेन "अनिर्दिष्टार्थाः स्वार्थे भवन्ति" इति न्यायेन सर्वत्र सिद्धत्वादित्याहुः॥ तच्चिन्त्यम् । व्यतिसे इत्यादी धातुं विनापि कर्तृबोधनाद्ययुतेः शैथिल्यात् । तुल्ययुक्त्या सुपामपि द्योतकतापत्तेीतोड़िवचनाघनुपपत्तेश्च । प्रत्ययलक्षणस्य लोपफलत्वेऽपि लुप्तविभक्तिस्मर. णजन्यबोधस्य फलत्वाभ्युपगमे बाधकाभावाच्च । स्वोत्तरतिङवाध्यकत्रीदिगतद्वित्वारोपेण द्विवचनादिरिति स्वोक्तविरोधाश्च । भवदुक्तरीत्यैव कविशिष्टभावनावाचकात् कर्मविशिष्टभाव. नावाचकात केवलभावनावाचकाच्च धातोर्लकारा भवन्तीत्यर्थे, लः कर्मणीत्यर्थपर्यवसानेन, 'अनिर्दिष्टार्थी' इति न्यायेनाऽपि तत्तत्का. रकादिविशिष्टभावनाऽर्थकानां तिङ सर्वत्र सिद्धघसम्भवेन निय. मस्यान्यथैव सङ्गमनीयत्वादित्यन्यत्र विस्तरः। ननु निपाताना वाचकत्वे, घटो न पट इत्यादी घटादेः प्रतियोगितया नअर्थाभावे तस्य चाश्रयतया घटादावन्वयोऽनुपपन्नः । भेदसम्बन्धन प्रातिपदिकार्थप्रकारकबोधे विशेष्यतया प्रत्ययजन्यो

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498