Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 423
________________ ४१० दर्पणसहिते धैयाकरणभूषणसारे प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति ॥ किश्चान्यथा कर्मणोऽपि क्वार्थतापनिः । पक्वौदनो मया भुज्यत इयत्र द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां विस्तरः ॥ ६०॥ इति वैयाकरणभूषणसारे क्त्वाद्यर्थनिर्णयः ॥ १२ ॥ स्थमभ्युपेतव्यम् । अन्यथा कर्तुः क्वार्थत्वाभ्युपगमेनोक्तस्थले तृती. यापत्तिवारणेऽपि, 'पक्त्वौदनो मया भुज्यते' इत्यत्रोदनपदोत्तरद्वि. तीयापत्तिः स्यादेव । तत्र पाकक्रियानिरूपितकर्मत्वशक्तेः कृतानभिधानादुक्तरीतेरसम्भवादित्याह-किश्चेति*॥ तत्रेदं बोध्यम् ॥ यदौदने पाकक्रियानिरूपितकर्मत्वमेव शाब्दवि. षयत्वमभिप्रेतं, न तु प्रधानक्रियानिरूपितकर्मत्वस्यापि तदौदनं प. क्त्वा भुज्यते इत्यपि साधु । ओदनस्य भोजनकर्मताया आर्थिककत्वात् । यदा तुभयकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं, तदादनपदा. दु द्वितीया असाध्वेव । उक्तव्यवस्थितः। परन्त्वाख्यातवाच्यक्रि. यायाः प्राधान्यतां प्रत्येव क्त्वान्तोपस्थिताः सर्वाः क्रिया गुणीभव. न्ति, न तु तासां परस्परविशेष्यविशेषणभावः। "गुणानां च परा. र्थत्वात्" इतिन्यायात् । एवञ्च स्नात्वा पीत्वा भुक्त्वा व्रजति' 'भुक्त्वा स्नात्वा पीत्वा व्रजति' इत्यधिशेषेण प्रयोगाः। ___ तुमुनस्तादर्थ्यरूपमुद्देश्यत्वमपि द्योत्यम् । “कियार्थायां क्रियायाम्" इत्युक्तेः । तनिष्कर्षश्च पूर्ववदेव तुम्प्रकृत्यर्थोपपदार्थयोस्तादर्थ्यवत समानकर्तृकत्वादिकमपि सम्बन्धः। तथाच, "हरि द्रष्टुं याति' इत्यतो हरिकर्मकभविष्यदर्शनोद्देश्यकं दर्शनकर्तकं यानमिति शाब्दधीः । अनयैव दिशैधानाहारको व्रजतीति बोध ऊहनीयः ॥६०॥ इति भूषणसारदर्पणे क्त्वाद्यर्थनिरूपणम् ॥ १२॥

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498