Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 424
________________ स्फोटनिरूपणम् । इत्थं व्याकरणादिना गृहीतशक्तिकपदसमुदायादनासन्नादऽगुहोतार्थतात्पर्य्यकादयोग्यादनाकाङ्क्षाच शाब्दबोधादर्शनादासस्यादिकमपि शक्तिशानजन्य पदार्थोपस्थित्या बोधजननीये सहकारि । आसत्तिश्च प्रकृतबोधानुकूल पदाव्यवधानम् । अस्ति च, "पर्वतो व ह्निमान्” रत्यत्र तादृशपदाव्यवधानं, न तु "गिरिर्भुक्तं वह्निमान् दे वदत्तेन" इति न ततो बोधः । अत एव, "स्थाल्यां तण्डुलं पचति" इत्यत्र तण्डुलकर्मकस्थाल्यधिकरणकक्रियेति बोधे नानासन्नता । तदूर्घटकसर्वेषां पदानां तादृशबोधानुकूलत्वात् स्थाल्यां पचतीत्ये. तावन्मात्रबोधे तु तदनासत्तमेव । श्लोकादौ तु योजनावाक्यादेव बोधः । तद्भ्रमेणाऽनासन्नाद् बोधदर्शनात्तज्ज्ञानमेव हेतुरिति स स्प्रदायः । ४११ नव्यास्तु- मौनिश्लोकादन्वयबोधानुदयप्रसङ्गाभोक्ताव्यवधानमा. सत्तिः । आकाङ्क्षादिसत्वे तात्पर्यज्ञाने च सति व्यवहितादव्यवहिताच्च बोधदर्शनात्तज्ज्ञानविलम्बेन शाब्दाविलम्बाच्च, किन्त्विदं पदमेतत्पदेन सम्भूयाऽन्वयबोधं जनयत्वित्याकारकपदतात्पर्य्यरूपाभिसन्धापयित्रिच्छा सा, न तु वक्त्रिच्छा । मौनिश्लोकादौ दोषतादवस्थ्यात् । शुक्रवाक्ये तु भगवत्तात्पर्य्यमादायैव गतिरित्याहुः। वस्तुतस्तु सत्यऽर्थतात्पर्य्यज्ञाने पदतात्पर्य्यज्ञानविलम्बेन थाब्दबोधाविलम्बाद् वृत्त्या पदजन्यपदार्थानामव्यवधानेनोपस्थितिरेवासत्तिः स्वरूपसत्यन्वयबोधे हेतुः । न हि पदार्थानामनुपस्थितान्वयधीः केनाप्यनुभूयते इति । अर्थतात्पर्य त्विदं पदमेतस्मिन्नर्थेऽपदार्थान्वयं बोधयत्वित्यभिसन्धापयित्रिच्छा विसंवादिशुकवा क्ये तु भगवत एव सा । विसंवादिनि तु शिक्षयितुरेव । अस्य सं. शये व्यतिरेकनिश्वये चान्वयाबोधात्तद्भ्रमेणान्वयबोधदर्शनाच्च त ज्ज्ञानमप्यन्वयबोधे हेतुः । अधिकमग्रे वक्ष्यते । शाब्दबोधे योग्यताया ज्ञानं कारणमिति बहवः । सा चैकपदार्थेऽपरपदार्थस्य यादृशसंसर्गवत्त्वं तादृशसंसर्गवत्तैव प्रकृतशाब्दबोधविषयसंसर्गवत्त्वमिति यावत् । अस्ति च पयसा सिञ्चति' इत्यत्र सेके पयःकरणकत्वस्य संसर्गः । अत एव करकाऽभिप्रायप्रयु. तपयसा सिञ्चतीति वाक्यं न योग्यम् । पयःपदाऽर्थकरकायां सेककरणत्वाभावात् । यादृशेति विशेषणाच्च 'आकाशं शब्द' इति वा

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498