Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 422
________________ : क्त्वाद्यर्थनिर्णयः। ४०९ क्त्वा इत्येव तदर्थात् । अन्यथा समानकर्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादानं तु आख्यातार्थक्रियायाः प्रधानभूता. याः कर्तुरभिधाना प्राधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भ. वति । उक्तश्च वाक्यपदीये (१)प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ॥ तदेव विशदयति-*अन्यथेति* ॥ एतत्सूत्रस्य कर्तृशक्तिप्रतिपा. दकत्वे इत्यर्थः ॥ समानेति ॥ तदुपादानाच कर्तृदयस्यैव लाभः॥ *न्यासः स्यादिति*॥"कर्तरि कृत्" इतिवत्। वस्तुतस्तु न तथा सम्भ. वति “कर्तरि कृत् " (पा० सू०३।४।६७) इति सूत्रेणैव गतार्थस्वाद , "अव्ययकृतो भावे" इति वार्तिकविरोधाचेति भावः । उ. तापत्ति निरस्यति ॥ *तृतीयापादनं विति*॥ *आख्यातार्थक्रि. यायाः इति* ॥ क्रियाद्वयनिरूपितकर्तृशक्त्योरनेकत्वेऽपि प्रधानतिङ. न्तार्थक्रियानिरूपितकर्तृशक्तराख्यातेनाभिधाने तत्र कृदन्तार्थक्रि. यानिरूपिततच्छक्तेरनभिहिताया अप्यभिहितस्वातिदेशस्य अनभि. धाने त्वनभिहितत्वातिदेशस्य चोकभाष्यप्रामाण्येनाऽभ्युपगमान्न तृतीयापत्तिः प्रकृते इति भावः॥ प्राधानेतरयोरिति* ॥ गुणप्रधानक्रियानिरूपितशक्तिवयं य. त्रैकस्मिन् द्रव्ये तत्र गुणक्रियानिरूपितशक्तिः प्रधानक्रियानिरूपित. शक्तिधर्ममनुरुणद्धीत्यर्थः । उक्तातिदेशेऽपि तत्सम्मतिमाह-*प्रधानविषयेति* ॥ प्रधानं विषयो निरूपकं यस्याः सा शक्तिर्यदा प्रत्यये. न तिङाऽभिधीयते तदा गुणक्रियावाचकधातूत्तरप्रत्ययेनाऽनभिहितवत् प्रतीयत इत्यर्थः। इदमुपलक्षणम् । अभिहिताया अपि अ. नभिहितत्वप्रतीतेः। तत्र, 'प्रासादे आस्त' इत्युदाहाय॑म् । अवश्यं चे. (१) इमे च हरिकारिके 'स्वादुमि णमुल्' इति सूत्रस्य भाज्यार्थानुवादिन्याविति वोध्यम् ।

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498