Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 425
________________ ४१२ दर्पणसहिते वैयाकरणभूषणसारे क्यं समवायसंसर्गमादाय नाभेदाऽन्वये योग्यम् । अयोग्येऽप्येतद्धमेणान्वयदर्शनादेतज्ज्ञानस्यापि हेतुता ॥ . ननु संसर्गस्य वाक्यार्थत्वेन तेबाधात् प्रागनुपस्थित्या कथं सद्बोधस्य तत्र सत्त्वमिति चेन्न हि योग्यताज्ञानस्य शाब्दबोधे नि. श्चयत्वेन हेतुता बमो, येनोक्तदोषोऽवकाशसादयेत् । किन्तु संशयनिश्चयसाधारणशानत्वेन । तस्य च न दौर्लभ्यम् । पयसा सिञ्च. तीत्यादौ सेकः पयः करणको न वेति संशयात्मकस्य भूतले घटोऽस्तीत्यादौ च प्रात्यक्षिकनिश्चयरूपस्याऽपि तत्प्राक्सौलभ्यात् । स्व. जन्यशाब्दबोधस्यैवान्वयबोधप्रतिबन्धकतयोक्तबोधात्तत्सम्भवात् । केचित्तु लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धित्वाधच्छिन्नं प्रति तदभाववत्ताज्ञानाभावस्य हेतुतया शाब्दबोधस्यापि तत्कायंतावच्छेदकाक्रान्ततया अयोग्यताज्ञानसत्त्वे तदभावादेव शाब्दबोधकरणे कृतं योग्यताज्ञानस्य तद्धेतुतया। कार्यतावच्छेदक. कोटौ प्रत्यक्षान्यत्वनिवेशेनैव लौकिकप्रत्यक्षनिरासेऽपि घटाधुपनीतभानसंग्रहाय तद्विहायाजन्यान्तद्वयनिवेशः। नच बाधनिश्चयाभावत्वापेक्षया संशयनिश्चयसाधारणयोग्यता. शानत्वेन हेतुत्वे लाघवमिति वाच्यम् । स्यादेवं यदि बाधाभावस्य शाब्दत्वं कार्यतावच्छेदकं कल्प्येत, किन्तु शाब्दबोधस्य बाधाबा. वकार्यतावच्छेदकाकान्ततया तहशायां प्रतिषेधामः । अत एव घ. टोऽभिधेय इत्यादावुक्तबाधाप्रसिद्धावपि न क्षतिः । तत्संसर्गाव. च्छिन्नतरप्रकारकर्ताद्वशेष्यकतवृत्तित्वस्यैव तत्कार्यतावच्छेदक त्वात् । घटाभावेऽभिधेयत्वप्रतियोगिकत्वभ्रमदशामादाय तदभाव. स्यापि प्रसिद्धश्चत्याहुः। अत्र वदन्ति । न हि तद्विशिष्टबुद्धिसामान्ये बाधाभावः कारणं, किन्तु बाधवतार इच्छासत्व आहार्यप्रत्यक्षोदयादिच्छाया उत्तेज. कत्वानुरोधेन प्रत्यक्षस्यैव प्रतिबध्यतावच्छेदकत्वावश्यकतयोपनी. तभानसाधारणप्रतिबध्यतायाः शाब्दबोधेऽसम्भवात्। न च तथाप्यनुमितिसाधारणप्रतिबध्यतायाः शाब्दबोधसाधारण्यं शङ्यम् । त. साधारणस्य प्रत्यक्षान्यज्ञानत्त्वस्य प्रतिबध्यतावच्छेदकत्वे प्रत्यक्षान्यत्वज्ञानत्वयोर्मिथो विशेष्यविशेषणभावे विनिगमनाविरहणा. नेकप्रतिबध्यप्रतिबन्धकभावापत्तेः। प्रतिबध्यतावच्छेदकगौरवापत्ते.

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498