Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 466
________________ स्फोटनिरूपणम्। ४५३ त्वविषयत्वनाऽप्युपपत्तेर्न साऽतिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाञ्च न भ्रमत्वम् । साक्षात्सम्बन्धांशे भ्रम इत्यवशिष्यते । तदपि, सोऽयमि. त्यत्र व्ययभेदांशे(१) तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरि. क्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । न च वर्णस्थले ध्वनिसत्वे मानाभावः । तदुत्पाद कशङ्खा. द्यभावेन तदसम्भवश्चति वाच्यम् । ककारागुच्चारणस्थले तत्तस्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तेचंन्युत्पत्तेश्च दर्श नाजिह्वाभिघातजवायुकण्ठसंयोगादेयनिजनकत्व(२)कल्पनात् । रूपया नाऽतिरिक्तति वर्णानित्यत्वसाधिकेत्यर्थः । न तु स्फाटोऽतिरिक्तति तदर्थः । तैः स्फोटाऽनङ्गीकारात् । .. नन्वेवं ध्वंसोत्पत्यादेस्तादृशप्रतीत्या धणेप्यवगाहने भ्रान्तत्वा. पत्तिरत आहः-*परम्परया वर्णति* ॥ स्वाश्रयसंयोगाऽवगाहिन्या लोहितः स्फटिक इति प्रतीतेर्यथा न भ्रमत्वं, तथाऽस्या अपीति भावः । अवशिष्यत इत्यस्योत्पन्नो वर्ण इति प्रतीतेरिति शेषः । ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयत्वकल्पने गौरवमत आ. ह-*परन्त्विति*-*अतिरिक्तति* ॥अधिकेत्यर्थः। तथाचाऽनेकवर्ण. तद्ध्वंसादिकल्पनाऽपेक्षया तत्प्रतीतेनियमतस्ताशसम्बन्धाऽव. गाहित्वकल्पनैव लघीयसीति भावः। यदि वर्णस्थले ध्वनिनयत्यं स्यात् स्यादेवतदोत्पत्तस्तद्घटितपरम्परासम्बन्धेन वर्णनिष्ठता। तत्रैव च मानाभाव इत्याशङ्कय निराचष्ट-*नचेति* ॥ वर्णपार्थक्येन ध्वनेरनुभवादिति भावः । हेत्वसमवधानादपि तत्सत्त्वं न घटत इ. त्याहुः ।। *तदुत्पादकति* ॥ शङ्खोष्ठाभिघातजवायुसंयोगादेरित्य. थः ॥ *वर्णानुत्पत्तरिति * ॥वर्णानभिव्यक्तरित्यर्थः॥ दर्शनादिति ॥ . (१) व्यक्त्यभदांश इति । व्यक्त्यभेदावगाहिनी या 'स एवायं ग. कार' इति प्रतीतिस्तस्या अभेदांश इत्यर्थः। (२) ध्वनिजनकत्वेति । अन्वयव्यतिरेकाभ्यामुक्तविधवायुतत्स्थानसंयोगादेर्ध्वजिनकत्वकल्पनादित्यर्थः। .

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498