Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 468
________________ स्फोटनिरूपणम् । ४५५ मानाधिकरण्यात्तस्य निर्गुणस्य द्रव्यस्य निरधिकरणस्य गुणस्य वाऽसम्भवात् । श्वेतगुणस्य छागसम्बन्धमुपजीव्यैव क्रियासम्बन्धा. च्छतिप्रतिपादितद्रव्यसम्बन्धाद् वाक्यप्रतिपत्तिपुरः स्थितगुणस. म्बन्धस्य दुर्बलत्वात् , श्वेतच्छागाभावेऽन्यगुणकश्छाग आलभ्यते, न तु श्वेतगुणयुक्तो मेषः । श्रुतिबाधापत्तेः। तस्य चाखण्डपक्षे अ. सम्भवात् । एवमेव पदार्थनिबन्धनमीमांसाबाधम्भवोऽपि। अख. ण्डस्फोटस्यैव भवन्मते अखण्डार्थत्वेन केन कस्य बाधो भवेदिति चेत् । अत्राहुः। अखण्डवाक्यादखण्डतत्तदर्थाच्च रेखागवयन्याः येन पदपदार्थावापोद्वापाभ्यां कल्पितपदपदार्थमादाय प्रतिनिध्युपादनस्योपपत्तिः । ऋषीणां तत्त्वार्थावबोधेऽपि तत्त्वभूतेन वस्तुना व्यवहाराऽसम्भवाद् व्यवहारकालेऽनिर्धारिततत्त्वसदृशैस्तै नाप्र. कारैः पदतदर्थानां व्यवह्रियमाणत्वान्न तद्वचोभिः पदपदार्थानां वा. स्तवसत्यत्वम् । वाक्यार्थस्यापि तदापेक्षिकमेव । परमार्थदशायां स. स्याऽपि व्यावहारिकस्यासत्यत्वादिति । - नैयायिकास्तु-सर्वमिदं वर्णानां नित्यत्वे सम्भवेत । तत्रैव तु प्रमाणाभावः । शब्दमात्रस्याकाशसमवायिकारणकत्वात् । भेरीदण्डसंयोगादीनां ध्वन्यात्मकशब्दं प्रतीव कष्ठादिस्थानवाय्वभिघा. तस्थाऽपि वर्णात्मकशब्दं प्रत्यन्वयव्यातिरेकाभ्यां निमित्तत्वाऽवधा. रणाञ्च । एवञ्च तादात्म्यसम्बन्धेन ध्वंसत्वाऽवच्छिन्नं प्रति हेतुतयो. च्चरितवर्णस्य क्षणाऽन्तरितस्याऽप्रतीतेर्नष्टो वर्ण इत्येव प्रतीतेश्च । स्वाव्यवहितोत्तरवर्णस्यैव नाशकल्पने प्रतियोगितासम्बन्धेन योग्य. विभुविशषगुणस्य हेतुताया ज्ञानादिस्थले क्लप्तत्वाच्च । कण्ठता. ल्वाधभिघातस्य च कत्वादिकमेव काय्यतावच्छेदकं, न तु तत्तद्व. ऽभिव्यक्तित्वं गौरवात् । न च लौकिकविषयितया कत्वमेव तद. वच्छेदकं वाच्यमिति न गौरवमिति वाच्यम् । तथा सति कोलाहलाऽप्रत्यक्षप्रसङ्गात् । न हि कोलाहलप्रत्यक्षं कत्वादिविषयकं, येन तल्लौकिकविषायतायाः कार्यतावच्छेदकघटकता सम्भाव्येत । किव घटायुत्पादकदण्डादेरपि तदभिव्यक्तित्वस्यैव कार्यतावच्छेदक त्वापत्तौ घटादीनामपि नित्यत्वापत्तिरिति बहुव्याकोपः ॥ न च सत एवाभिव्यक्तिरित साडयमताश्रयणादुक्तापत्तिरिष्टैवे. ति वाच्यम् । तन्मतस्याऽप्यापातमनोरमत्वात् । तथाहि अभिव्यक्तिः

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498