Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
स्फोटनिरूपणम् ।.. शक्यस्व इव शक्तत्वे जातेलाघवमीक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ॥७॥
अयं भावः ॥ वर्णास्तावदावश्यकाः । उक्तरीत्या(१) च. सोऽयं गकार इतिवद्, योऽयं गकारः श्रुतः सोऽयं हकार इत्यपि स्यात् । स्फोटस्यैकत्वात् । गकारोऽयं न हकार इत्यनापत्तेच।
किश्च स्फोटे गत्वाद्यभ्युपेयं, न वा ?। आये तदेव गकारो. ऽस्तु । वर्णनियतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथाचा.
.. क्रमप्राप्त जातिस्फोटं निरूपयति, मुले-*शक्यत्व इवेति* ॥ ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसवात्तदतजातेर्वाचकत्वविचारः काकदन्तपरीक्षासमोऽत आह सारे-*अयम्भाव इति* ॥ हकारगकारयोरभेदे साधकमाह-*स्फोटस्यैकत्वादिति* ॥ तदभिन्नाभिन्नस्य तदभिन्नत्वनियमेन हकारात्मकस्फोटाभिन्नगकारे तदभेदावगाहिबुद्धेः प्रमात्वापत्तिरित्यर्थः ॥ *अनापत्तेश्चेति* ॥ अभेदादेव च ताहशभेदाऽवगाहिबुद्धेः प्रमात्वानुपपत्तेरित्यर्थः।
ननु वर्णात्मकस्फोटस्यैकत्वेऽपि गत्वादिविरुद्धधर्माध्यासमूल. कभेदप्रतीतर्नाऽनुपपत्तिः । प्रामाण्यं तु तस्या बणैक्यवादिमते दूरा. पास्तमेवेत्यत आह-*किश्चति ॥ उपाधित्वाभिमतगत्वादीत्यर्थः । आधे स्फोटे गत्वाऽभ्युपगमपक्षे॥ तदेव-गत्वमेव । ननु गत्वादेर्वर्ण. धर्मतया भेदेन कथं तस्य तदात्मकत्वमत आह-वर्णनित्यतावादि. मिरिति* ॥ मीमांसकादिभिरित्यर्थः ॥ *अतिरिक्तति ॥ धर्मध. मिणोरभेदाभ्युपगमादित्यर्थः(२) ॥ *गौरवमिति* ॥ गकारादिप्र.
(१) उक्तरीत्येति । वर्णानङ्गीकारसहितस्फोटाङ्गीकाररूपोकरीत्ये. त्यर्थः।
(२) धस्तुतस्तु अनेकव्यक्तिनिष्ठानुगतप्रतीत्यैवातिरिक्तजात्यभ्युपगमः । वर्णानां नित्यत्वमते तु गकारादिव्यक्तैरैक्येन अनुगमाप्रस. क्त्या गकाराव्यतिरिक्तगत्वाङ्गीकारस्य निष्प्रयोजनत्वेन धर्मस्यैवा. स्वीकारेण धर्मधर्मिणोरभेदाभ्युपगमो व्यर्थ इति।

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498