SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् ।.. शक्यस्व इव शक्तत्वे जातेलाघवमीक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ॥७॥ अयं भावः ॥ वर्णास्तावदावश्यकाः । उक्तरीत्या(१) च. सोऽयं गकार इतिवद्, योऽयं गकारः श्रुतः सोऽयं हकार इत्यपि स्यात् । स्फोटस्यैकत्वात् । गकारोऽयं न हकार इत्यनापत्तेच। किश्च स्फोटे गत्वाद्यभ्युपेयं, न वा ?। आये तदेव गकारो. ऽस्तु । वर्णनियतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथाचा. .. क्रमप्राप्त जातिस्फोटं निरूपयति, मुले-*शक्यत्व इवेति* ॥ ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसवात्तदतजातेर्वाचकत्वविचारः काकदन्तपरीक्षासमोऽत आह सारे-*अयम्भाव इति* ॥ हकारगकारयोरभेदे साधकमाह-*स्फोटस्यैकत्वादिति* ॥ तदभिन्नाभिन्नस्य तदभिन्नत्वनियमेन हकारात्मकस्फोटाभिन्नगकारे तदभेदावगाहिबुद्धेः प्रमात्वापत्तिरित्यर्थः ॥ *अनापत्तेश्चेति* ॥ अभेदादेव च ताहशभेदाऽवगाहिबुद्धेः प्रमात्वानुपपत्तेरित्यर्थः। ननु वर्णात्मकस्फोटस्यैकत्वेऽपि गत्वादिविरुद्धधर्माध्यासमूल. कभेदप्रतीतर्नाऽनुपपत्तिः । प्रामाण्यं तु तस्या बणैक्यवादिमते दूरा. पास्तमेवेत्यत आह-*किश्चति ॥ उपाधित्वाभिमतगत्वादीत्यर्थः । आधे स्फोटे गत्वाऽभ्युपगमपक्षे॥ तदेव-गत्वमेव । ननु गत्वादेर्वर्ण. धर्मतया भेदेन कथं तस्य तदात्मकत्वमत आह-वर्णनित्यतावादि. मिरिति* ॥ मीमांसकादिभिरित्यर्थः ॥ *अतिरिक्तति ॥ धर्मध. मिणोरभेदाभ्युपगमादित्यर्थः(२) ॥ *गौरवमिति* ॥ गकारादिप्र. (१) उक्तरीत्येति । वर्णानङ्गीकारसहितस्फोटाङ्गीकाररूपोकरीत्ये. त्यर्थः। (२) धस्तुतस्तु अनेकव्यक्तिनिष्ठानुगतप्रतीत्यैवातिरिक्तजात्यभ्युपगमः । वर्णानां नित्यत्वमते तु गकारादिव्यक्तैरैक्येन अनुगमाप्रस. क्त्या गकाराव्यतिरिक्तगत्वाङ्गीकारस्य निष्प्रयोजनत्वेन धर्मस्यैवा. स्वीकारेण धर्मधर्मिणोरभेदाभ्युपगमो व्यर्थ इति।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy