________________
दर्पणसहिते वैयाकरणभूषणसारे तिरिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः। .. वायुसंयोगवत्ति, ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेन्न । प्रतीतेविना बाधकं भ्रमत्वायोगात् । अस्तु वा वायुसंयोग एव गकारोऽपि । तस्यातीन्द्रियत्वं दोष इति चेद्धर्मबदुपपवेरिति कृतं स्फोटेन ।
तीतीनां गत्वादिविशिष्टगकारादिविषयकत्वेनोपपत्तिसम्भवादिति भावः । अन्त्ये स्फोटे गत्वाद्यनभ्युपगमकल्पे इत्यर्थः। *विरोध इ. ति । गादिप्रतीत्यनुपपत्तिरित्यर्थः । गत्वस्यान्यधर्मस्य स्फोटावृ. तित्वेन तद्विशिष्टविषयकप्रतीत्यनुपपत्तिरिति भावः ॥ *वायुसंयोगवृत्तीति* ॥ स्वमते ध्वनिवृत्तीति, मतान्तरे पूर्वोक्तरीत्या तादृशवै. जात्यारोपेण प्रतीतेः सूपपादत्वादाह- आरोप्येति* ॥ *भ्रमत्वायो. गादिति ॥ साक्षात्सम्बन्धन प्रमात्वोपपत्तावारोपितसम्बन्धे तदु. पपन्नत्वे प्रमाणाभावादिति भावः।
- नन्वतिरिकानेकवर्णकल्पनापेक्षया तादृशप्रतीतीनां भ्रमत्वमेव न्याय्यमत आह-अस्तु वेति* ॥ तथाच तावतैव प्रतीतेः प्रामा. ण्यनिर्वाहेऽलं स्फोटकल्पनयेति भावः तस्य-संयोगस्य । *अतिद्रिा यत्वमिति* । लौकिकविषयताशून्यमित्यर्थः । दोषः बाधकमित्यर्थः । प्रतिबन्धोत्तरयति-*धर्मवदिति ॥ यथा अतीन्द्रियमात्रवृत्तिधर्मत्व. स्य साक्षात्काराविषवत्वव्याप्यत्वं त्वया न स्वीक्रियते, तथाऽतीन्द्रि. यसंयोगगतविशेषस्य मयाऽपीत्यर्थः । यद्यतीन्द्रियस्यैवैन्द्रियक. त्वमत्यन्तासन्भवदुक्तिक, तदा तादृशवैजात्यस्य स्फोटधर्मवत्वमपि । तथैव प्रत्यक्षानुपपत्तरिति भावः । ननु कत्वादिधर्माणामतीन्द्रियत्वे. ऽपि ज्ञानलक्षणया कादिप्रतीतौ तद्भाने बाधकाभाव इति चेन्न । क. कार इति प्रत्यये, कत्वं साक्षात्करोमीत्यनुव्यवसायेन लौकिकवि. षयत्वावगाहेन नोक्तप्रकारोऽसम्भवात् । शङ्खः पीत इति ज्ञानानन्त.