SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४५६ दर्पणसहिते वैयाकरणभूषणसारे __इत्थं च पञ्चधा व्यक्तिस्फोटाः । जातिस्फोटमाह-- सत्यसती वा। नाद्यः। घटानुत्पत्तिदशायां घटस्येव तस्या अपि सत्त्वाद् घट इति प्रतीत्यापत्तेः । अभिव्यक्तेरप्यभिव्यक्त्यगीकारेऽपि तस्या अपि कार्यत्वेन सत्त्वादुक्तदोषो दुरुद्धर एव । अन्त्ये स्वसिद्धान्तव्याघातः। युक्तितौल्येन पदार्थान्तरस्याप्युत्पत्तिसिद्धेरिति । किञ्चोत्पन्नो घटो नष्टो घट इति प्रतीत्या घटादीनामनित्यत्ववदुत्पन्नः ककारो नष्टः, सत्यविलक्षणप्रतीत्या ककारादीनामनित्यत्वमेवावधाय॑ते । कत्वादीनां संयोगधर्मत्वं तु दुरुपपादमेव । वर्णासमेवतत्वेन श्रोत्राऽग्राह्यत्वप्रसङ्गात् । न चोक्तसान्निकर्षादेव तत्प्रत्यक्षोपपत्तिस्तथा सति शब्दत्वादिप्रत्यक्षाऽनापत्तः। न च तत्सम्बन्धस्य ककारं शृणोमीति प्रतीतौ भानं प्रमाणमपि शब्दं शृणोमीति प्रतीतेः समवायविषयकत्ववदुक्तप्रतीतेरपि तद्विषयकत्वनोपपत्तश्च । समवायांशे सर्वत्र तादृशप्रतीतीनां भ्रमत्वमित्यपि न। वर्णसमवेतत्वस्य तत्रा. भ्युपगमेन विषयाऽबाधात् । एवञ्च वर्णानामनकत्वेन तत्रादात्तत्वादि. प्रतीतिरपि स्वरसतः सङ्गच्छेत इति दृष्टान्तदौर्भिक्ष्यमेव । ___ एवश्च वर्णप्रागभावध्वंसानां प्रमाणसिद्धानामपलपितुमशत्वान्न तत्कल्पनागौरवमपि । नच वर्णानित्यतावादिमते सोऽयं गकार इति प्रत्यभिज्ञानुपपत्तिस्तस्यास्तज्जातीयत्वविषयत्वेनोपपादने तु तजा. तीयोऽयमित्येवाकारः स्यादिति वाच्यम् ॥न्यत्र प्रत्याभिज्ञायां गत्वा. देर्जातित्वेन भानं तत्रैव तस्यास्तज्जातीयोऽयमित्याकारो, यत्र तु स्वरूपेण तत्र सोऽयमित्याकार इत्यभ्युपगमात् । तज्जातीयाभेदावगा. हिन्यास्तदेवौषधमित्याकारायाः प्रत्याभज्ञायाः सर्वसिद्धत्वाच्च । तस्माद् वर्णात्मकस्फोटस्य वाचकत्वमसम्भवदुक्तिकमेव । स्फोटस्य ध्वन्यतिरिक्तत्वाभावाच्च योगशास्त्रादौ तस्य निरूपणं तूपासनार्थ. मेवेति प्रागुक्तप्रायम् । सखण्डस्फोटस्तु प्रागेव निरस्त इत्यानुपूर्व्यः वच्छिन्नवर्णानां वाचकत्वमूह्यमिति वदन्ति ॥ *इत्थनिति* ॥ पूर्वोक्तप्रकारित्यर्थः ॥ *पञ्चधात* ॥ वर्णपदवाक्याऽखण्डपदाऽखण्ड. वाक्यभेदभिन्ना इत्यर्थः ॥ ७० ॥ इति भूषणसारदर्पणे व्यक्तिस्फोटनिरूपणम् ॥
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy